________________
जैनमतम् ।
४३ अपरे हि सौगतादयो मोक्षमवाप्यापि तीर्थनिकारादिसम्भवे भूयो भूयो भवमवतरन्ति । यदाहुः
ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् ।
गत्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ इति । न ते परमार्थतो मोक्षगतिभाजः कर्मक्षयाभावाद्, न हि तत्वतः कर्मक्षये पुर्नभवावतारः। यदुक्तम्
दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्करः । कर्मवीजे तथा दग्धे न रोहति भवाङ्करः ॥ इति ।
अर्हश्च भगवान् कर्मक्षयपूर्वमेव शिवपदं प्राप्त इति ॥ ४६॥ तत्वान्याह---
जीवाजीवौ तथा पुण्यं पापमाश्रवसंवरौ। बन्धश्च निर्जरामोक्षौ नव तत्त्वानि तन्मते ॥४७॥
तन्मते = जैनमते, नव तत्वानि सम्भवन्तीति ज्ञेयम् , नामानि निगदसिद्धान्येव ॥४७॥ जीवाजीवपुण्यतत्त्वमेवाह
तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान् । का शुभाशुभं कर्म भोक्ता कर्मफलस्य च ॥४८॥ चैतन्यलक्षणो जीवो यश्चैतद्वैपरीत्यवान् । अजीवः स समाख्यातः पुण्य सत्कर्मपुद्गलाः ॥४९॥
(युग्मम् ) तत्र जैनमते, चैतन्यलक्षणो जीव इति सम्बन्धः, विशेषणान्याह-ज्ञानादिधर्मेभ्यो भिन्नाभिन्न इति । ज्ञानमादिर्येषां धर्माणामिति ज्ञानदर्शनचारित्ररूपा धर्मगुणास्तेभ्योऽयंजीवश्चतुर्दशभेदोऽपि कथञ्चिद्भिन्नः कथञ्चिदभिन्न इत्यर्थः, एकेन्द्रियादिपञ्चेन्द्रियपर्यन्तेषु स्वापेक्षया ज्ञानवत्त्वमस्त्येवेत्यभिन्नत्वं ज्ञानादिभ्यः, परापेक्षया पुनरज्ञानवत्त्व