________________
४२
तथा
सटीके षड्दर्शनसमुच्चये
निर्विशेषं हि सामान्यं भवेत्खरविषाणवत् । सामान्यरहितत्वेन विशेपास्तद्वदेव हि ॥ तथैकान्तसत्त्वमेकान्तासत्त्वं च वार्त्तमेव, तथा हि- सर्वभावानां हि सदसदात्मकत्वमेव स्वरूपम्, एकान्तसत्वे वस्तुनो वैस्वरूप्यं स्याद एकान्तासचे च निःस्वभावता भावानां स्यात् तस्मात्स्वरूपेण सच्चात् पररूमेण चासच्चात् सदसदात्मकं वस्तु सिद्धम् ।
यदाहु:--
'सर्वमस्ति स्वरूपेण पररूपेण नास्ति च ।
अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसम्भवः' ॥ इति । ततचैकस्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभावरूपेण वृत्तेरनेकान्तात्मकत्वं घटस्य सूपपादम् एवं चैकस्मिन्नर्थे ज्ञाते सर्वे - षामर्थानां ज्ञानं सर्वपदार्थपरिच्छेदमन्तरेण तन्निषेधात्मन एकस्य वस्तुनो विविक्ततया परिच्छेदासम्भवाद् । आगमोऽप्येवमेव व्यवस्थितः -
'जे' एगं जाणइ सो सव्वं जाणइ । जो सव्वं जाणइ सो एगं जाणई' ||
तथा
एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भवाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्टः ॥
इति सुघटं सदसदने कान्तात्मकं वस्तु, अनयैव भङ्गया स्यादस्तिस्यान्नास्तिस्यादवक्तव्यादिसप्तभङ्गी विस्तरस्य जगत्पदार्थसार्थव्यापकत्वाद् अभिलाप्यानभिलाप्यात्मकमप्यूह्यमिति ।
सद्भूतार्थोपदेशकः कृत्स्नकर्मक्षयं कृत्वेति । कृत्स्नानि सर्वाणि घात्यघातीनि यानि कर्माणि जीवभोग्यवेद्यपुद्गलास्तेषां क्षयं निर्जरणं विधाय परमं पदं सम्प्राप्तः ।
१. य एकं जानाति स सर्व जानाति । यः सर्वं जानाति स एकं जानाति ॥