________________
४१
जैनमतम् । यथैव हि काचिद्वयक्तिरुपलभ्यमाना व्यक्त्यन्तराद्विशिष्टा विसदृशपरिणामदर्शनादवतिष्टते, तथा सदृशपरिणामात्मकसामान्यदर्शनासमानेति, तेन समानो गौरयं, सोऽनेन समान इति प्रतीतेः ।
न चास्य व्यक्तिस्वरूपादभिन्नत्वात्सामान्यरूपताव्याघातः, यतो रूपादीनामपि व्यक्तिस्वरूपादभिन्नत्वमस्ति, न च तेषां गुणरूपताव्याघातः, कथंचिद्वयतिरेकन्तु रूपादीनामिव सदृशपरिणामस्याप्यस्त्येव पृथगव्यपदेशादिभात्त्वाद् विशेष अपि नैकान्तेन सामान्यात्पृथग भवितुमर्हन्ति यतो यदि सामान्यं सर्वगतं सिद्धं भवेत्तदा तेपासपर्वगतत्वं, ततो विरुद्धधर्माध्यासः स्यात् ।
न च तस्य तत्सिद्धं, प्रागुक्तयुक्तया निराकृतत्वात् सामान्यस्य विशेषाणाञ्च परस्परं कथंचिदव्यतिरेकेणैकानेकरूपतया व्यवस्थितत्वाद् विशेपेभ्योऽव्यतिरिक्तत्वाद्धि सामान्यमप्यनेकमिष्यते सामान्यात्तु विशेषाणामव्यतिरेकात् तेऽप्येकरूपा इत्येकत्वं च सामान्यस्य संग्रहनयार्पणात्सर्वत्र विज्ञेयम् , अनेकत्वं च प्रमाणार्पणात् तस्य सदृशपरिणामरूपस्य विसदृशपरिणामवत् प्रतिव्यक्तिभेदात् । .
एवं चासिद्धं सामान्यविशेश्योः सर्वथा विरुद्धधर्माध्यासितत्वं कथंचिद्विरुद्धधर्माध्यासितत्वं चेद् विवक्षितं तदाऽस्मत्पक्षप्रवेशः, कथंचिद्विरुधर्माध्यासस्य कथंचि दाविनाभूतत्वात् पाथःपावकदृष्टान्तोऽपि साध्यसाधन विकलः, तयोरपि कथंचिद्विरुद्धधर्माध्यासितत्वेन भिन्नत्वेन च स्वीकारात् , पयस्त्वपावकत्वादिना हि तयोविरुद्धधर्माध्यासो भेदश्च, द्रव्यत्वादिना पुनस्तद्वैपरीत्यमिति तथा च कथं न सामान्यविशेषात्मकत्वं वस्तुनो घटत इति । उक्तं च--
दोहिं विण एहिं पणीयं सत्थमुलूगेण तहवि मिच्छत्तं । जं सविसयप्पहाणतणेण अण्णोणणिरवेखं ।। १. द्वाभ्यामपि नयाभ्यां प्रणीतं शास्त्रमुलूकेन तथाऽपि मिथ्यात्वम् ।
यत्सविषयप्रधानत्वेनान्योन्यनिरपेक्षम् ॥ ६ष०९०