________________
सटीके षड्दर्शनसमुच्चये एवं सामान्यस्थाने विशेषशब्दं विशेषस्थाने च सामान्यशब्द प्रयुञ्जानेन सामान्येऽपि तद्ग्राहको बोधो विविक्तोऽङ्गीकर्तव्यः ।
तस्मात्स्वस्वग्राहिणि ज्ञाने पृथक् प्रतिभासमानत्वाद् द्वावपीतरेतरविशकलितो, ततो न सामान्यविशेषात्मकत्वं वस्तुनो घटत इति स्वतन्त्रः सामान्यविशेषवादः, स्वतन्त्रसामान्यविशेषदेशका नैगमनयानुरोधिनः काणादा आक्षपादाश्च ।
तदेतत्पक्षत्रयमपि क्षोदं न क्षमते, प्रमाणबाधितत्वात् सामान्यविशेषोभयात्मकस्यैव वस्तुनो निर्विगानमनुभूयमानत्वाद् वस्तुनो हि लक्षणमर्थक्रियाकारित्वं, तच्चानेकान्तवाद एवाविकलं कलयन्ति परीक्षकाः, तथा हि-गौरित्युक्ते खुरककुदलाङ्गलसानाविषाणाद्यवयवसंपन्नं वस्तुरूपं सर्वव्यक्त्यनुयायि प्रतीयते तदा महिष्यादिव्यावृत्तिरपि प्रतीयते,यत्रापि च शवला गौरित्युच्यते, तत्रापि च यथा विशेषप्रतिभासस्तथा गोत्वप्रतिभासोऽपि स्फुट एव, शबलेति केवलविशेषोच्चारणेऽप्यर्थात्प्रकरणाद्वा गोत्वमनुवर्तते; अपि च शवलत्वमपि नानारूपं तथा दर्शनात् ततो वक्त्रा शबलेत्युक्तेक्रोडीकृतशबलसामान्यं विवक्षितगोव्यक्तिगतमेव शबलत्वं व्यवस्थाप्यते; तदेवमावालगोपालं प्रतीतप्रसिद्धेऽपि वस्तुनः सामान्यविशेषात्मकत्वे तदुभयकान्तवादः प्रलापमात्रं, न हि क्वचित् कदाचित् केनचित् किश्चित्सामान्यं विशेषविनाकृतमनुभूयते, विशेषा वा तद्विनाकृताः। यदाहुः
द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः ।
क कदा केन किंरूपा दृष्टा मानेन केन च ॥ इति । केवलं दुर्णयवलप्रभावितप्रबलमतिव्यामोहादेकमपलप्यान्यद् व्यवस्थापयन्ति कुमतयः सोऽयमन्धगजन्यायः।
येऽपि च तदेकान्तपक्षोपनिपातिनः प्रागुक्तदोषास्तेऽप्यनेकान्तवादप्रचण्डमुद्गरप्रहारजर्जरितत्वानोच्छ्वसितुमपि क्षमाः।
स्वतन्त्रसामान्यविशेषवादिनस्त्वेवं प्रतिक्षेप्याः-सामान्यं प्रतिव्यक्ति कथंचिद्विभिन्नं, कथंचित्तदात्मकत्वाद्विसदृशपरिणामवद् ,