________________
जैनमतम् । साधारण रूपमवेक्षतं यः शृङ्गं शिरस्यात्मन ईक्षते सः॥ एकाकारपरामर्शप्रत्ययस्तु स्वहेतुदत्तशक्तिभ्यो व्यक्तिस्य एवोत्पद्यत इति न तेन सामान्यसाधनं न्याव्यम् ।
किं च यदिदं सामान्यं परिकल्प्यते-तदेकमकं वा, एकमपि सर्वगतमसर्वगतं च, सर्वगतं चेरिक न व्यत्यन्तमालेवपि लभ्यते, सर्वगतैकत्वाभ्युपगमे वा तस्य यथा गोत्वसामान्यं गोव्यक्तीः क्रोडीकरोति, एवं किं न घटपटादिव्यक्तीरभ्यविशेशात, असर्वगतं चेद्विशेषरूपापत्तिरभ्युपगमवाधश्च ।
अथानेक गोत्वाश्वत्वघटत्वादिभेदभिन्नत्वात्, तर्हि विशेषा एव स्वीकृता अन्योन्यव्यावृत्तिहेतुत्वाद्, न हि यदोत्वं तदश्वत्वात्मकमिति, अर्थक्रियाकारित्वं च वस्तुनो लक्षणं तच्च विशेषेष्वेव स्फुटं लक्ष्यते, न हि सामान्येन काचिदर्थक्रिया क्रियते तस्य निष्क्रियत्वात्, वाहदोहादिष्वर्थक्रियासु विशेषाणामेवोपयोगात् तदिदं सामान्य विशेषेभ्यो भिन्नमभिन्नं वा, भिवं चेदवस्तु, विशेषविश्लेपार्थक्रियाकारित्वाभावाद्, अभिन्नं चेद्विशेषा एव तत्स्वरूपवदिति विशेषकान्तवादः।
नैगमनयानुगामिनस्त्वाहुः-स्वतन्त्रौ सामान्यविशेषौ, तथैव प्रमाणेन प्रतीतत्वात्, तथा हि-सामान्यविशेषावत्यन्तं भिन्नौ, विरुद्धधर्माध्यासितत्वाद् , यावेवं तावेवं यथा पाथःपावको, तथा चैतौ, तस्मात्तथा, सामान्यं हि गोत्वादि सर्वगतं, तद्विपरीताश्च शबलशाबलेयादयो विशेषाः, ततः कथयेषामैक्यं युक्तं, न सामान्यात् पृथग विशेषस्योपलम्भ इति चेत् ? कथं तर्हि तस्योपलम्भ इति वाच्यम् ?
सामान्यव्याप्तस्येति चेद् ? न, तर्हि स विशेषोपलम्भः, सामान्यस्यापि तेन ग्रहणात् ततश्च तेन वोधेन विविक्तविशेषग्रहणाभावात् तद्वाचकं ध्वनि तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता, न चैतदस्ति विशेषाभिधानव्यवहारयोः प्रवृत्तिदर्शनात, तस्माद्विशेषमभिलषता तत्र व्यवहारं प्रवर्तयता तद्ग्राहको बोधोऽभ्युपगन्तव्यः। .