________________
सटीके षड्दर्शनसमुच्चये खलु स्वयमेकस्मानिरंशाद्रूपादिक्षणलक्षणात्कारणायुगपदनेककारणसाध्यान्य कार्याध्यङ्गीर्वाणोऽपि, परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भाश्यति तस्माक्षणिकस्यापि भावस्याक्रमेणार्थक्रिया दुर्घटा इत्यनित्यैकान्तादपि क्रमाक्रमयोनिटत्यैव व्याप्याऽर्थक्रिया व्यावर्तते, तनावृत्तौ च सत्वमपि व्यापाकानुपलम्भवलेनैव निवतत इत्येकान्तानित्यवादो न रमणीयः ।
स्याद्वादे तु पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेन भावानामर्थक्रियापपत्तिरविरुद्धा।
न चैकत्र वस्तुनि परस्परविरुद्धधर्माध्यासयोगादसन् स्याद्वाद इति वाच्यम् ?
नित्यपक्षानित्यपक्षविलक्षणस्य कथंचित्सदसदात्मकस्य पक्षान्तरस्याङ्गीक्रियमाणत्वात् तथैव च सर्वैरनुभवादिति । तथा च पठन्ति
भागे सिंहो नरो भागे योऽर्थो भागद्वयात्मकः । तमभागं विभागेन नरसिंहं प्रचक्षत इति ॥ तथा सामान्यैकान्तं, विशेषकान्तं, भिन्नौ सामान्यविशेषौ, चेत्थं निराचष्टे, तथा हि-विशेषाः सामान्याद्भिन्ना अभिन्ना वा, भिन्नाश्वेन्मण्डूकजटाभारानुकाराः, अभिन्नाश्चेत्तदेव तत्स्वरूपवदिति सामान्यैकान्तः।
सामान्यैकान्तवादिनस्तु द्रव्यास्तिकनयानुपातिनो मीमांसकभेदा अद्वैतवादिनः सांख्याश्च ।
पर्यायनयान्वयिनो भाषन्ते विविक्ताः क्षणक्षयिणो विशेषा एव परमार्थस्ततो विष्वग्भूतस्य सामान्यस्याप्रतीयमानत्वाद् ।
न हि गवादिव्यक्त्यनुगमकाले वर्णस्थानात्मकं व्यक्तिरूपमवहायान्यक्तिचिदेकमनुयायि प्रत्यक्षे प्रतिभासते तादृशस्यानुभवाभावात्। तथा च च पठन्ति
एतासु पश्चस्ववभासिनीषु प्रत्यक्षबोधे स्फुटमङ्गलीषु ।