________________
कृतिकदा प्राकृतिका
रिका ।
जैनमतम् । बन्धश्च प्राकृतिकवैकृतिकदाक्षिणभेदात्रिविधः, तद्यथा-प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः, ये विकारानेव भूतेन्द्रियाहङ्कारवुद्धीः पुरुपबुद्धयोपासते तेषां वैकारिकः, इष्टापूर्ने दाक्षिणः, इष्टापूर्त जनभोजनदानादिकं तस्मिन् पुरुषतत्वानभिज्ञो हीष्टकारी कामोपहतमना बध्यत इति । इष्टापूर्त मन्यमाना वरिष्ठं नान्यत् श्रेयो येऽभिनन्दन्ति मूढाः । नाकस्य पृष्ठे ते सुकृतेन भूत्वा इमं लोकं हीनतरं वा विशन्ति ॥ इति वचनाद् ।
इति त्रिविधवन्धविच्छेदात्पुरुषानुभवस्ततः प्रकृतिवियोगः पुरुषस्य, प्रकृतिपुरुषविवेकदर्शनाच निवृत्तायां प्रकृतौ पुरुषस्य स्वरूपावस्थानं मोक्ष इति श्लोकपूर्वार्द्धम्, मानत्रितयं च भवेत् स्यात् प्रत्यक्षं लैङ्गिक शाब्दं चकारः सर्वत्र सम्बध्यते, प्रत्यक्षमिन्द्रियोपलभ्यं लैङ्गिकमनुमानगम्य, शाब्दं चागमस्वरूपमिति प्रमाणत्रयम् ॥ अथोपसंहरन्नाह
एवं सांख्यमतस्यापि समासः कथितोऽधुना। जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ॥४४॥
पूर्वोक्तप्रकारेण सांख्यमतस्यापि समासः संक्षेपः कथितः, अपि समुच्चयार्थे न केवलं बौद्धनैयायिकयोः संक्षेप उक्तः, सांख्यमतस्याप्यधुना कथित इति, सांख्य इति पुरुषनिमित्तेयं सञ्ज्ञा संख्यस्य इमे सांख्याः, तालव्यो वा शकारः, शङ्खनामाऽऽदिपुरुषः ।
अथ क्रमायातं जैनमतोद्देशमाह-अधुनेत्युत्तरार्द्धन सम्बध्यते । अधुना इदानीं जैनदर्शनसंक्षेपः कथ्यते-कथंभूत इति ? सुविचारवान् , सुष्ठु शोभनो विचारोऽर्थोऽस्यास्तीत्यर्थे मतुप् । सुविचारवानिति साभिप्रायं पदम् । अपरदर्शनानि हि
१. आप्रामाणिकोऽयं कल्पः। प्रथमकल्पस्तु कथमपि सङ्गमनीयः। वस्तुतस्तु, 'शुद्धास्मतत्वविज्ञानं सांख्यमित्यभिधीयत' इति व्यासस्मृत्या भावार्थकाङ्प्रत्ययनिष्पनज्ञानवाचकसङ्ख्याशब्दात्सम्बन्धिबोधकशैषिकाणा 'सांख्य' शब्दः सिद्धः, यद्वा 'संख्यां प्रकुर्वते चैव प्रकृतिं च प्रचक्षते । चतुर्विंशतितत्वानि तेन सांख्याः प्रकीर्तिता' इति भारतात्, संख्याशब्दावेदार्थकाणा निप्पन्नः 'सांख्य' शब्दः, उभयथाऽपि योगरूढः । . ५१००