________________
सटीके षड्दर्शनसमुच्चये पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥
इत्याधुक्त्या न विचारपदवीमाद्रियन्ते । जैनस्त्वाह
अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते। निर्दोषं काञ्चनं चेत्स्यात्परीक्षाया बिभेति किम् ॥
इति युक्तियुक्तविचारपरम्परापरिचयपथपथिकत्वेन जैनो युक्तिमार्गमेवावगाहते, न च पारम्पर्यादिपक्षपातेन युक्तिमुल्लङ्घयति परमार्हतः, उक्तश्च
पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ॥
इत्यादिहेतुहेतिशतनिरस्तविपक्षप्रसरत्वेन 'सुविचारवान्' इत्यसाधारणविशेषणप्रसरणं ज्ञेयमिति ॥ ४४ ॥ तदेवाहजिनेन्द्रो देवता तत्र रागद्वेषविवर्जितः। हतमोहमहामल्लः केवलज्ञानदर्शनः ॥ ४५ ॥ सुरासुरेन्द्रसंपूज्य सद्भूतार्थोपदेशकः। कृत्स्नकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ॥ ४६॥
तत्र तस्मिन् जैनमते जिनेन्द्रो देवता कृत्स्नकर्मक्षयं कृत्वा परमं पदं सम्प्राप्त इति सम्बन्धः, जैनेन्द्र इति जयन्ति रागादीनिति जिनाः सामान्यकेवलिनस्तेषामिन्द्रः स्वामी तादृशासदृशचतुस्विंशदतिशयसम्पत्सहितो जिनेन्द्रो देवता दर्शनप्रवर्तक आदिपुरुष, एष कीहक् शिवं संप्राप्त इति परासाधारणानि विशेषणान्याह-रागद्वेषविवर्जित इति । रागः सांसारिकस्नेहोऽनुग्रहलक्षणः, द्वेषो वैराग्याद्यनुबन्धान्निग्रहलक्षणः, ताभ्यां विवर्जितोरहितः। एतावेव दुर्जयो दुरन्तभवसम्पातहेतुतया च मुक्तिप्रतिरोधको समये प्रसिद्धौ, यदाह