________________
२८
सटीके षड्दर्शनसमुच्चये
तदेवाह -
एतेषां या समावस्था सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका ॥ ३४॥ एतेषां सांख्यानां प्रकृतिः प्रीत्यप्रीतिविषादात्मकानां लाघवोपटम्भगौरवधर्माणां सत्वरजस्तमसां त्रयाणामपि गुणानां या साम्यावस्था समतयाऽवस्थितिः सा किल प्रकृतिरुच्यते, किलेत्याप्तप्रवादे, सा प्रकृतिः कथ्यते, अन्यच्च सा प्रधानाव्यक्तशब्दाभ्यां वाच्या प्रधानाव्यक्तशब्देन च प्रकृतिराख्यायते, शास्त्रे प्रकृतिः प्रधानमव्यक्तं चेति पर्याया न तत्त्वान्तरमित्यर्थः तथा नित्यस्वरूपिका शाश्वतभावतया प्रसिद्धेत्यर्थः, उच्यते च नित्या नानापुरुषाश्रया च तद्दर्शनेन प्रकृतिर्यदा ह—
,
तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाऽऽश्रया प्रकृतिरिति ॥ ३४ ॥ दर्शनस्वरूपमाह
सांख्या निरीश्वराः केचित्केचिदीश्वरदेवताः । सर्वेषामपि तेषां स्यात्तत्त्वानां पञ्चविंशतिः ||३५|| केचित्सांख्या निरीश्वरा ईश्वरं देवतया न मन्यन्ते केवलाध्यात्मवेदिनः केचित्पुनरीश्वरदेवता महेश्वरं स्वशासनाधिष्ठातारमाहुः सर्वेषामिति । तेषां केवल नित्यात्मवादिनामीश्वरदेवतानां च सर्वेषां सांख्यमतानुसारिणां शासने तत्त्वानां पञ्चविंशतिः स्यात्, तत्त्वं ह्यपवर्गसाधकं बीजमिति सर्ववादिसंवादः ।
"
यदुक्तम् —
पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।
जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः । तन्मते पञ्चविंशतिस्तत्त्वानीत्यर्थः ॥ ३५ ॥
गुणत्रयमाह -
सत्वं रजस्तमश्चेति ज्ञेयं तावद् गुणत्रयम् । प्रसादतोष दैन्यादिकार्यलिङ्गं क्रमेण तत् ॥ ३६ ॥