________________
सांख्यमतम् । मम करणीयं परिहीयते, पीनसेन कण्ठ उपरुद्ध इत्याद्यभिधाय कथां विच्छिन्दन् विक्षेपेण पराजीयते।
स्वपक्षे परापादितदोपमनुवृत्य तमेव परपक्षे प्रतीतिमापादयतो मतानुज्ञानाम निग्रहस्थानं भवति, चोरो भवान् पुरुषत्वात् प्रसिद्धचोरवदित्युक्ते, भवानपि चोरः पुरुषत्वादिति ब्रुवन्नात्मनः परापादितचोरत्वदोषमभ्युपगतवान् भवतीति मतानुज्ञया निगृह्यते ।
निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेलणनाम निग्रहस्थानं भवति, पर्यनुयोज्यो नाम निग्रहोपपत्त्याऽवश्यं नोदनीयः, 'इदन्ते निग्रहस्थानमुपनतमतो निगृहीतोऽसि' इत्येवं वचनीयस्तमुपेक्ष्य न नियहाति यः स पर्यनुयोज्यापेक्षणेन निगृह्यते। ___ अनिग्रहस्थाने निग्रहस्थानानुयोगान्निरनुयोज्यानुयोगनाम निग्रहस्थानं भवति, उपपन्नादिनमग्रमादिनमनिग्रहार्हमपि 'निगृहीतोऽसीति यो ब्रूयात्स एवाभूतदोषोद्भावनान्निगृह्यत इति ।
सिद्धान्तमभ्युपेत्य नियमात्कथाप्रसङ्गोऽपसिद्धान्तनाम निग्रहस्थानम् , यः प्रथमं कश्चित्सिद्धान्तमभ्युपगम्य कथामुपाक्रमत, तत्र च सिषाधयिषितार्थसाधनाय परोपालम्भो यथा सिद्धान्तविरुद्धमभिधत्ते सोऽपसिद्धान्तेन निगृह्यते।
हेत्वाभासाश्च यथोक्ता असिद्धविरुद्धादयो निग्रहस्थानम् इति, भेदान्तरानन्त्येऽपि निग्रहस्थानानां द्वाविंशतिर्मूलभेदा निवेदिता इति ॥ अथोपसंहरंन्नाहनैयायिकमतस्यैवं समासः कथितोऽधुना । सांख्याभिमतभावानामिदानीमयमुच्यते ॥३३॥
एवम् इत्थंप्रकारतया नैयायिकमतस्य शिवशासनस्य समासः संक्षेपोऽधुना कथितो निवेदितः साम्प्रतमेव निष्ठित इत्यर्थः।
इदानीं पुनरयं समासः सांख्याभिमतभावानाम् उच्यते, सांख्याः कापिला इत्यर्थः, तदभिमता तदभीष्टा ये भावाः पञ्चविंशतितत्वादयस्तेषां संक्षेपोऽतः परं कथ्यत इत्यर्थः ॥ ३३॥