________________
सांख्यमतम् । तावदिति प्रक्रमे, सत्त्वरजस्तमश्चेति गुणत्रयं ज्ञेयम् , तद् गुणत्रयं, क्रमेण परिपाट्या, प्रसादतोपदेन्यादिकार्यलिङ्गं गुणत्रयेणेदं लिङ्गत्रयं क्रमेण जन्यते, सत्वगुणेन प्रसादकार्यलिङ्ग,-बदननयनादिप्रसन्नता सत्त्वगुणेन स्यादित्यर्थः, रजोगुणेन तोपः स चानन्दपर्यायः, तल्लिङ्गानि स्फूर्त्यादीनि रजोगुणेनाभिव्यज्यन्त इत्यर्थः, तमोगुणेन च दैन्यं जन्यते हा दैव ! नष्टोऽस्मि वञ्चितोऽस्मोत्यादिवदनविच्छायतानेत्रसंकोचादिव्यङ्ग्यं दैन्यं तमोगुणलिङ्गमिति, दैन्यादीत्यादिशब्देन दुःखत्रयमाक्षिप्यते, तद्यथाऽऽध्यात्मिकम् , आधिभौतिकम् , आधिदैविकं चेति ।
तत्राध्यात्मिकं द्विविधं-शारीरं मानसं च, शागीरं वातपित्तश्लेमगां वैषम्यनिमित्तम् , मानसं कामक्रोधलोभमोहेयाविषयादर्शननिवन्धनं, सर्व चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् ।
बायोपायसाध्यं दुःखं द्वेधा-आधिभौतिकम् आधिदैविकं चेति, तत्राधिभौतिकं मानुषपशुमृगपक्षिसरीसृपस्थावरनिमित्तम् , आधिदैविकं यक्षराक्षसग्रहाद्यावेशहेतुकमिति ॥ ३६ ॥ ___ अनेन दुःखत्रयेणाभिहतस्य प्राणिनस्तत्त्वजिज्ञासोत्पद्यतेऽतस्तान्येव तत्त्वान्याह
ततः संजायते वुद्धिमहानिति यकोच्यते । अहंकारस्ततोऽपि स्यात्तस्मात्षोडशको गणः ॥३७॥
ततो गुणत्रयाद् बुद्धिः संजायते यका बुद्धिर्महानित्युच्यते महानितिशब्देन कोयंत इत्यर्थः, एवमेतन्नान्यथा, गौरयं नाश्वः, स्थाणुरेष नायं पुरुष इत्येवं निश्चयस्तेन पदार्थप्रतिपत्तिहेतुर्योऽध्यवसायः सा बुद्धिरिति, तस्यास्त्वष्टौ रूपाणि तदर्शनविश्रुतानि यदाहधर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि सात्त्विकानि, अधर्मादीनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानीत्यष्टौ, ततो बुद्धेरहंकारः स चाभिमानात्मको यथा अहं शब्दे, अहं रूपे, अहं रसे, अहं स्पर्श,
१. अत्र क्रमेण प्रतीतिपञ्चकाकारस्थाने; अहं शृणोमि, अहं रूपयामि, अहं रसयामि, अहं स्पृशामि, अहं जिघ्रामि, इत्येवाकारपञ्चकं ज्याय इति भाति, मूले निर्दिष्टाकारकप्रतीतीनामनानुभविकत्वाद् , ग्रन्थोक्तलेखानुपूर्वीभङ्गभिया तु मूलस्थपाठो न पराऽवति ।