________________
न्यायमतम् । कृतकं किंचिन्मृदु दृष्टं रावशय्याऽऽदि, किश्चित्कठोरं कुठारादि, एवं कृतकं किञ्चिदनित्यं भविष्यति घटादिकं, किञ्चिनित्यं शब्दादीति।
साध्यसाम्यापादनेन प्रत्यवस्थानं साध्यसमा जातिः, यथा घटः तथा शब्दः प्राप्तस्तईि यथा शब्दस्तथा घट इति, शब्दश्च साध्य इति घटोऽपि साध्यो भवेत् , ततश्च न साध्यः साध्यस्य दृष्टान्तो, विरुद्धलक्षणत्वान्न दृष्टान्तः स्यात् , न चेदेवं तथाऽपि वेलक्षण्यात्सुतरामदृष्टान्त इति ।
प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थान प्राप्त्यप्राप्तिसमे जाती, यथा यदेतत्कृतकत्वं त्वया साधनमुपन्यस्तं तत्कि प्राप्य साध्यं साथयत्यप्राप्य वा, प्राप्य चेद् तर्हि द्वयोविद्यमानयोरेव प्राप्तिर्भवति न सदसतोरिति, द्वयोश्च सत्वात्कि कस्य साध्यं साधनं वा, अप्राप्य तु साधनमयुक्तमतिप्रसङ्गादिति ।
प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमा जातिः, यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते जातिवाद्याह-यद्यनित्यत्वे कृतकत्वं साधनं, कृतकत्वमिदानी कि साधनं तत्साधने किं साधनम् ? इति ।
प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः, यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते जातिवाद्याहयथा घटः प्रयत्नानन्तरीयकोऽनित्यो दृष्ट एवं प्रतिदृष्टान्त आकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टं कूपखननप्रयत्नानन्तरमुपलम्भादिति, न चेदमनैकान्तिकत्वोद्भावनं, भङ्गयन्तरेण प्रत्यवस्थानात् । __अनुत्पत्त्या प्रत्यवस्थानम् , अनुत्पत्तिसमा जातिः, यथाऽनुत्पन्ने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क्व वर्तते, तदेव हेत्वभावादसिद्धिरनित्यस्येति ।
साधर्म्यसमा वैधर्म्यसमा वा या जातियथा पूर्वमुदाहृता सैव संशयेनोपसंह्रियमाणा संशयसमा जातिर्भवति, यथा कि घटसाध