________________
२२
सटीके षड्दर्शनसमुच्चये ात्कृतकत्वादनित्यः शब्दः, किं वा तद्वैधयेणाकाशसाम्यान्निरवयवत्वान्नित्य इति ।
द्वितीयपक्षोत्थापनबुद्धया प्रयुज्यमाना सैव साधर्म्यसमा वैधHसमा वा जातिः प्रकरणसमा भवति, तत्रैवानित्यः शब्दः कृतकस्वाद् घटवदिति प्रयोगे, नित्यः शब्दः श्रावणत्वात् शब्दत्ववदिति, उद्भावनप्रकारभेदमात्रे सति नानात्वं द्रष्टव्यम् ।
त्रैकाल्यानुपपत्या हेतोः प्रत्यवस्थापनमहेतुसमा जातिः, यथा हेतुः साधनं तत्साध्यात्पूर्व पश्चाद्वा सह वा भवेद् , यदि पूर्वमसति साध्यं तत्कस्य साधनम् , अथ पश्चात्साधनं पूर्व तर्हि साध्यं तस्मिंश्च पूर्वसिद्धे किं साधनेन, अथ युगपत्साध्यसाधने तर्हि तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभाव एव न भवेदिति । ___अर्थापत्या प्रत्यवस्थानम् अर्थापत्तिसमा जातिः, यद्यनित्यसाधात्कृतकत्वादनित्यः शब्दोऽर्थादापद्यते, नित्यसाधयान्नित्य इति, अस्ति चास्य नित्येनाकाशेन साधयं निरवयवत्वमित्युद्भावनप्रकारभेद एवायमिति । ___ अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः, यथा यदि शब्दघटयोरेको धर्मः कृतकत्वमिष्यते तर्हि समानधर्मयोगात्तयोरविशेषः, तद्वदेव सर्वपदार्थानामविशेषः प्रसज्यत इति । __उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः, यथा यदि कृतकत्वोपपत्त्या शब्दस्यानित्यत्वं, निरवयवत्वोपपत्या नित्यत्वमपि कस्मान्न भवति पक्षद्वयोपपत्याऽनध्यवसायपर्यवसानत्वं विवक्षितमित्युद्भावनप्रकारभेद एवायम् ।
उपलब्धेन प्रत्यवस्थानमुपलब्धिसमा जातिः, यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वादिति प्रयुक्ते प्रत्यवतिष्ठते न खलु प्रयत्नानन्तरीयकत्वमनित्यत्वे साधनं, साधनं तदुच्यते येन विना न साध्यमुपलभ्यते, उपलभ्यते च प्रयत्नानन्तरीयकत्वेन विनाऽपि विद्युदादावनित्यत्वं, शब्देऽपि कचिद्वायुवेगभज्यमानवनस्पत्यादिजन्ये तथेति।