________________
न्यायमतम् । प्रतिपक्षस्तन विवर्जिता रहिनति प्रतिपक्षमाधनविहीनो वितण्डावादः, वैतण्डिको हि स्वाभ्युपगतपक्षमस्थापयन् यत्किंचिद्वादेन परोक्तं दूपयनीत्यर्थः ॥ ३० ॥
हेत्वाभासा असिद्धाद्या,इछलं कृपो नवोदकः । जातयो दूषणाभासाः पक्षादिर्दूष्यते न यैः ॥३१॥
हेत्वाभासा ज्ञेया इति ! के ते' इन्याह-अमि द्वाद्या, असिद्धविरुद्धाने कान्तिककालात्ययापदिष्टप्रकरणसमाः पञ्च हेत्वाभासा ज्ञेयाः, तत्र पक्षे धर्मत्वं यस्य नास्ति सोऽसिद्धः, विपक्षे सन् सपक्षे चासन् विरुद्धः, पक्षत्रयवृत्तिरनकान्तिकः, प्रत्यक्षानुमानागमविरुद्धपक्षवृत्तिः कालात्ययापदिष्टः, विशेषाग्रहणे हेतुत्वेन प्रयुज्यमानः प्रकरणसमः, उदाहरणानि स्वयमभ्यूह्यानि ।
छलं कूपो नवोदक इति, परोपन्यस्तवादे स्वाभिमतार्थान्तरकल्पनया वचनविघातश्छलम् , कथमित्याह-वादिना कूपो नवोदक इति कथायां प्रत्यग्रार्थवाचकतया नवशब्दप्रयोगे छलवादी नवसंख्यामारोप्य दूषयति, कुत एक एव कूपो नवसंख्योदक इति वाकछलम् , प्रस्तावागतत्वेन शेषच्छलद्वयमप्याह-संभावनयाऽतिप्रसङ्गिनोऽपि सामान्यस्य हेतुत्वारोपणेन तन्निपेधः सामान्यच्छलम् , यथा अहो नु खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इति ब्राह्मणस्तुतिप्रसङ्गे कश्चिद्वदति संभवति ब्राह्मणे विद्याचरणसंपदिति, तच्छलवादी ब्राह्मणत्वस्य हेतुत्वमारोप्य निराकुर्वन्नभियुङ्क्ते, यदि ब्राह्मणे विद्याचरणसंपद्भवति व्रात्येऽपि सा भवेद् व्रात्योऽपि ब्राह्मण एवेति, औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानम् उपचारच्छलं, यथा मञ्चाः क्रोशन्तीत्युक्ते परः प्रत्यवतिष्ठते कथमचेतना मञ्चाः क्रोशन्तीति छलत्रयस्वरूपं ज्ञेयमिति ।
जातय इत्यादि । दूषणाभासा जातयः, अदूषणान्यपि दूषणवदाभासन्त इति दूषणाभासाः, यैः पक्षादिर्न दृष्यते, आभासमात्रत्वान्न पक्षदोषः समुद्भावयितुं शक्यते केवलं सम्यग्हेतौ हेत्वाभासे वा वादिना प्रयुक्ते झटिति तद्दोषत्वाप्रतिभासे हेतुप्रतिविम्बनप्रायं