________________
सटीके पड्दर्शनसमुच्चये यः कथाऽभ्यासहेतुः स्यादसौ बाद उदाहृतः॥ २९ ॥
असौ वाद उदाहृतः कथितस्तज्ज्ञैरित्यर्थः, यः कः ? इत्याह-- कथाऽभ्यासहेतुः, कथा प्रामाणिकी तस्या अभ्यासः कारणम् , कयोराचार्यशिष्ययोः, आचार्यों गुरुरध्यापकः, शिष्यश्चाध्येता विज्ञेय इति, कस्मात् पक्षप्रतिपक्षपरिग्रहात् , पक्षः पूर्वपक्षः प्रतिज्ञाऽऽदिपरिग्रहः, प्रतिपक्ष उत्तरपक्षः पूर्वपक्षवादिप्रयुक्तप्रतिज्ञाऽऽदिप्रतिपञ्चकोपन्यासपौडिः तयोः परिग्रहात्संग्रहादित्यर्थः, आचार्य: पूर्वपक्षमङ्गीकृत्याचष्टे, शिष्यश्चोत्तरपक्षमुररीकृत्य पूर्वपक्षं खण्डयति, एवं निग्राहकजयपराजयच्छलजात्यादिनिरपेक्षतयाऽभ्यासनिमित्तम् , पक्षप्रतिपक्षपरिग्रहेण यत्र गुरुशिष्यौ गोष्ठी कुरुतः स वादो ज्ञेयः॥ अथ तद्विशेषमाहविजिगीषुकथा या तुच्छलजात्यादिदूषणम् । स जल्पः, सावितण्डा तु या प्रतिपक्षवर्जिता ॥३०॥
स जल्प इति सम्बन्धः, यद् विजिगीषुकथायां विजयाभिलाषिवादिप्रतिवादिप्रारब्धप्रमाणोपन्यासगोष्ठ्यां सत्यां छलजात्यादिदूषणम् , छलं त्रिप्रकारम्-वाक्छलं, सामान्यच्छलम् , उपचारच्छलं चेति, जातयश्चतुर्विंशतिभेदाः, आदिशब्दान्निग्रहस्थानादिपरिग्रहः, एतैः कृत्वा दूषणं परोपन्यस्तयक्षादेर्दूषणजालमुत्पाद्य निराकरणम् , अभिमतं च स्वपक्षस्थापनेन सन्मार्गप्रतिपत्तिनिमित्ततया छलजात्याधुपन्यासः परप्रयोगस्य दूपणोत्पादनम् , तथा चोक्तम्
'दुःशिक्षितकुतर्काशलेशवाचालिताननाः । शक्याः किमन्यथा जेतुं वितण्डादोषमण्डिताः ॥ गतानुगतिको लोकः कुमार्ग तत्प्रतारितः । मा गादिति च्छलादीनि प्राह कारुणिको मुनिः ॥ इति ।
संकटे प्रस्तावे च सति च्छलादिभिरपि स्वपक्षस्थापनमनुमतम् , परविजये हि धर्मव्वंसादिदोषसंभवस्तस्माद्वरं छलादिभिरपि जयः ।