________________
सटीके षड्दशनसमुच्चये उपसंहरनाह
बौद्धराद्धान्तवाच्यस्य संक्षेपोऽयं निवेदितः । नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥ १२ ॥
अयं संक्षेपो निवेदितः कथितः निष्ठां नीतः, कस्य वौद्धगद्धान्तवाच्यस्य बौद्धानां राद्धान्तः सिद्धान्तस्तत्र वाच्योऽभिधातव्योऽर्थस्तस्य ।
इतोऽनन्तरं नैयायिकमतस्य शिवशासनस्य 'कथ्यमानो निशम्यतां' संक्षेपः कथ्यमानः श्रूयतामित्यर्थः ॥ १२ ॥ तदेवाह
आक्षपादमते देवः स्पृष्टिसंहारकृच्छिवः । विभुनित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ॥ १३ ॥
आक्षपादा नैयायिकास्तेषां मते शासने देवो दर्शनाधिष्ठायकः शिवो महेश्वरः स कथंभूतः ? सृष्टिसंहारकृत् सृष्टिः प्राणिनामुत्पत्तिः, संहारस्तद्विनाशः, सृष्टिश्च संहारश्चेति द्वन्द्व तौ करोतीति क्विषि तोऽन्तः, तथा हि-अस्य प्रत्यक्षोपलक्ष्यमाणचराचरस्वरूपस्य जगतः कश्चिदनिर्वचनीयमाहात्म्यः पुरुषः स्रष्टा ज्ञेयः, केवलसृष्टौ च निरन्तरोत्पद्यमानापारमाणिगणस्य भुवनत्रयेऽप्यमातत्वमिति संहारकतोऽपि कश्चिदभ्युपगन्तव्यः, यत्प्रमाणं-सर्व धरणिधरणीधरतरुपुरप्राकारादिकं, बुद्धिमत्पूर्वक कार्यत्वात्, यद्यत् कार्य तत्तद् बुद्धिमत्पूवकं, यथा घटः कार्य चेदं, तस्माद् बुद्धिमत्पूर्वकमिति प्रयोगः, स भगवानीश्वर एवेत्यर्थः, व्यतिरेके गगनं, न चायमसिद्धो हेतुः ? भूभूधरादीनां स्वकारणकलापजन्यत्वेनावयवितया वा कार्यत्वस्य जगत्प्रसिद्धत्वाद् , नापि विरुद्धानकान्तिकदोषौ विपक्षादत्यन्तव्यावृत्तत्वाद् , नापि कालात्ययापदिष्टः प्रत्यक्षानुमानोपमानागमावाध्यमानधर्मधर्मित्वाद्, नापि प्रकरणसमः, तत्परिपन्थिपदार्थस्वरूपसमर्थनप्रथितप्रत्यनुमानोदयाभावाद् । ___ अथ निवृतात्मवदशरीरत्वादेव न संभवति सृष्टिसंहारकर्तेश्वर इति प्रत्यनुमानोदयात्कथं प्रकरणसमदूषणाभाव इति चेद् ?