________________
२८
रायचन्द्रजैनशास्त्रमालायाम् प्रतिपादितजीवगुणमार्गणास्थानादिप्रपञ्चितविचित्रविकल्परूपैः, निश्चयनयेन मोहरागद्वेपपरिणतिसम्पादितविश्वरूपत्वात्कदाचिदशुद्धैः कदाचित्तदभावाच्छुद्धैश्चैतन्यविवर्तग्रन्थिरूपैर्वहुभिः पर्यायैः जीवमधिगच्छेत् । अधिगम्य चैवमचैतन्यस्वभावत्वात् ज्ञानादर्थान्तरभूतैरितः प्रपञ्चमानैलिङ्गैर्जीवसंबद्धमसंबद्धं वा स्वतो मे. दबुद्धिप्रसिद्ध्यर्थमजीवमधिगच्छेदिति ॥
इति जीवपदार्थव्याख्यानं समाप्तम् ।
अथाजीवपदार्थव्याख्यानम् । [ १२४ ] आकाशादीनामेव जीवत्वे हेतूपन्यासोऽयम् । आकाशकालपुद्गलधर्माधर्मषु चैतन्यविशेपरूपा जीवगुणा नो विद्यन्ते । आकाशादीनां तेपामचेतनत्वसामान्यत्वात् । अचेतनत्वसामान्यञ्चाकाशादीनामेव । चेतनता जीवस्यैव । चेतनत्वसामान्यादिति ॥
[ १२५ ] आकाशादीनामचेतनत्वसामान्ये पुनरनुमानमेतत् । सुखदुःखज्ञानस्य हितपरिकर्मणोऽहितभीरुत्वस्य चेति, चैतन्यविशेषाणां नित्यमनुपलब्धेरविद्यमानचैतन्यसामान्या एवाकाशादयोऽजीवा इति ॥
[१२६-१२७ ] जीवपुद्गलयोः संयोगेऽपि भेदनिवन्धनस्वरूपाख्यानमेतत् । यत्खलु शरीरशैरीरिसंयोगेन स्पर्शरसगुणगन्धवर्णत्वाच्छन्दत्वात्संस्थानसङ्घातादिपर्यायपरिणतत्वाच्च, इन्द्रियग्रहणयोग्यं तत्पुद्गेलद्रव्यम् । यत्पुनः स्पर्शरसगन्धवर्णगुणत्वादशव्दत्वादेनिर्दिष्टसंस्थानत्वादव्यक्तत्वादिपर्यायैः परिणतत्वाच्च नेन्द्रियग्रहणयोग्यम् , तच्चेतनागुणत्वात् रूपिभ्योऽरूपिभ्यश्चाजीवेभ्यो विशिष्टं जीवद्रव्यम् । एवमिह जीवाजीवयोयोर्वास्तवो भेदः सम्यग्ज्ञानानां मार्गप्रसिद्धयर्थं प्रतिपादित इति ॥
____ इति अजीवपदार्थव्याख्यानं पूर्णम् । - [ १२८ ] उक्तौ मूलपदार्थो । अथ संयोगपरिणामनिवृत्तेतरसप्तपदार्थानामुपोीतार्थ जीवपुद्गलकर्मचक्रमनुवर्ण्यते ॥
[१२८-१२९-१३०] इह हि संसारिणो जीवादनादिवन्धनोपाधिवशेन स्निग्धः परिणामो भवति । परिणामात्पुनः पुद्गलपरिणामात्मकं कर्म । कर्मणो नारकादिगतिपु गतिः । गत्यधिगमनाद्देहः।देहादिन्द्रियाणि । इन्द्रियेभ्यो विषयग्रहणं । विषयग्रहणाद्रागद्वेषौ । रागद्वेषाभ्यां पुनः सिग्धः परिणामः । परिणामात्पुनः पुद्गलपरिणामात्मकं कर्म । कर्मणः पुनर्नारकादिगतिपु गतिः । गत्यधिगमनात्पुनर्देहः । देहात्पुनरिन्द्रियाणि । इन्द्रियेभ्यः पुनर्विषयग्रहणं । विषयग्रहणात्पुनारागद्वेषौ । रागद्वेषाभ्यां पुनरपि स्निग्धः परिणामः । एवमिदमन्योन्यकार्यकारणभूतजीवपुद्गलपरिणामात्मकं कर्मजालं संसारचक्रजीवस्यानाद्यनिधनं सादिसनिधनं वा चक्रवत्परिवर्तते । तत्र पुद्गलपरिणामनिमित्तो जीवपरिणामो जीवपरिणामनिमित्तः पुद्गलपरिणामश्च वक्ष्यमाणपदार्थवीजत्वेन संप्रधारणीय इति ॥
१ तेपां रागद्वेपमोहादीनामभावात्. २ इतः परं कथ्यमानैः, ३ शीर्यतेऽनेनात्मा तत् शरीरम् । शरीरसंयोगे सति समचतुरस्रादिपु स्थानपर्य्यायपरिणतत्वात्.. ४ वज्रऋपभसंहननादिपर्य्यायपरिणतं तदपि पुद्गलमेव । अतएव इन्द्रियपरिणतं तदपि पुद्गलमेव । अतएव इन्द्रियग्रहणयोग्यम्. ५ आकाररहितत्वात्, अतएव आत्मनि आकारो वयेते. ६ ज्ञानस्य अगुरुलघुकैः पर्यायैः परिणतलात्. ७ पुद्गलेभ्यः. ८ धर्मादिभ्यः. ९ वस्तुसंवन्धी भेदः. १० उदाहरणार्थम्.