________________
पञ्चास्तिकायसमयसारस्य टीका ।
२७
[११८] इन्द्रियभेदेनोक्तानां जीवानां चतुर्गतिसंवन्धत्वेनोपसंहारोऽयम् । देवगतिनाम्नो देवायुपश्चोदयाद्देवास्ते च भवनवासिव्यन्तरज्योतिष्कवैमानिकनिकायभेदाच्चतुर्धा । मनुष्यगतिनानो, मनुप्यायुषश्च उदद्यान्मनुष्याः । ते कर्मभोगभूमिज भेदात् द्विविधाः । तिर्यग्गतिनाश्नस्तिर्यगायुषश्च उदयात्तियैश्चस्ते पृथिवीशम्बूक यू कोद्देश जलचरोरगपक्षिपरिसर्पचतुष्पदादिभेदादनेकधा । नरकगतिनाम्नो, नरकायुषश्च उदद्यान्नारकाः । ते रत्नशर्करावालुकापङ्क धूमतमोमहातमः प्रभाभूमिज भेदात्सप्तधा । तंत्र देवमनुष्यनारकाः पश्ञ्चेन्द्रिया एव । तिर्यञ्चस्तु केचन पञ्चेन्द्रियाः केचिद्देवमनुष्यनारकाः पञ्चेन्द्रिया एव । तिर्यञ्चस्तु केचित्पञ्चेन्द्रियाः । केचिदेक-द्वि-त्रि- चतुरिन्द्रिया अपीति ॥
[११९] गत्यायुन्नी मोदद्यनिर्वृत्तत्वाद्देवत्वादीनामनात्मस्वभावत्वोद्योतनमेतत् । क्षीयते हि क्रमेणारब्धफलो गतिनामविशेषायुर्विशेषश्च जीवानाम् । एवमपि तेषां गत्यन्तरस्यार्युरन्तरस्य च कषायानुरञ्जिता योगप्रवृत्तिलेया भवति बीजं ततस्तदुचिंतमेव । गत्यन्तरमायुरन्तरश्च ते प्रामुवन्ति । एवं क्षीणाक्षीणा - भ्यामपि पुनः पुनर्नवीभृताभ्यां गतिनामायुः कर्मभ्यामनात्मस्वभावभूताभ्यामपि चिरमनुगम्यमानाः संसरन्त्यात्मानमचेतयमाना जीवा इति ॥
[ १२० ] उक्तजीवप्रपञ्चोपसंहारोऽयम् । एते युक्तप्रकाराः सर्वे संसारिणो देहप्रवीचारा अदेहप्रवीचारा भगवन्तः सिद्धाः शुद्धा जीवाः । तत्र देहप्रवीचारत्वादेकप्रकारत्वेऽपि संसारिणो द्विप्रकाराः । भव्या अभव्याश्च । ते शुद्धस्वरूपोपलम्भशक्तिसद्भावासद्भावाभ्यां पाच्याsपाच्यमुद्द्रवदभिधीयन्त इति ॥
[ १२१ ] व्यवहारजीवत्वैकान्तप्रतिपत्तिनिरासोऽयम् । य इमे एकेन्द्रियादयः पृथिवीकायिकादयश्चानादिजीवपुद्गल परस्परावगाहमवलोक्य, व्यवहारनयेन जीवप्राधान्याज्जीवा इति प्रज्ञाप्यन्ते । निश्चयनयेन तेर्षु' स्पर्शनादीन्द्रियाणि, पृथिव्यादयश्च कायाः जीवलक्षण भूत चैतन्य स्वभावाभावान्न जीवा भवन्तीति । तेष्ववर्पत्स्वपरपरिच्छित्तिरूपेण प्रकाशमानं ज्ञानं तदेव गुणगुणिनोः कथञ्चिदभेदाज्जीवत्वेन प्ररूप्यत इति ॥
[ १२२ ] अन्यासाधरणजीव कार्यख्यापनमेतत् । चैतन्यस्वभावत्वात्कर्तृस्थायाः क्रियायाः ज्ञप्तेर्दृशेश्व जीव एव कर्त्ता न तत्सर्वेन्धः पुद्गलो यथाकाशादि । सुखाभिलाषक्रियायाः दुःखोद्वेगक्रियायाः स्वसंवेदितहिताहितनिर्वर्तनक्रियायाश्च चैतन्यविवर्तनरूपसङ्कल्पप्रभवत्वास एवं कर्त्ता नान्यः । शुभाशुभकर्मफलभृताया इष्टानिष्टविषयोपभोगक्रियायाश्च सुखदुःखस्वरूपस्वपरिणामक्रियाया इव स एव कर्त्ता नान्यः । एतेनसाधारणकार्यानुमेयत्वं पुद्गलव्यतिरिक्तस्यात्मनो द्योतितमिति ॥
[ १२३ ] जीवाजीवव्याख्योपसंहारोपक्षेपसूचनेयम् । एवमनया दिशा व्यवहारनयेन कर्मग्रन्थ
१ अणिमादिगुणैर्दीव्यन्ति क्रीडन्तीति देवाः. २ मनसा निपुणा मनसा उत्कृष्टा वा मनुष्या मनुष्या वा. ३ तिरोऽञ्चतीति तिर्यङ् । तिरस् शब्दस्य वक्रवाचिनः ग्रहणात्. ४ नरान् प्राणिनः कायति कदर्द्धयतीति नरकं कर्म तदुदयात् जाताः नारकाः । अथवा नरान् अज्ञानिनः कायति घातयति खण्डीकरोतीति नरकं कर्म तदुदयानाता नारकाः ५ चतुर्गत्यादिभेदेपु. ६ अविद्यमानात् आयुपः अन्यत् इति आयुरन्तरं तस्य. ७ कर्मभिः आत्मानं लिम्पतीति लेश्या आत्मप्रवृत्तिलेश्या कपायोदयानुरञ्जिता योगप्रवृत्तिर्लेश्या इति. ८ कारणं. ९ तेपां जीवानां लेश्याया वा उचितं योग्यम्. १० प्राप्यमाणाः. ११ संसारिजीवेषु. १२ इन्द्रियकायेपु. १३ कथंनृतायाः क्रियायाः कर्तृस्थायाः । कर्तरि तिष्टति इति कर्तृस्था, तस्याः कर्तृस्थायाः १४ अनादिकर्मवन्यत्वात् तत्संबन्धः जीवसंबन्धः पुलः कथ्यते । स पुलो इप्तिक्रियायाश्च कत्ती दृशिक्रियायाश्च नेति तात्पर्यम्. १५ पर्य्यायरूपः १६ जीवः १७ इप्तेशेष क्रियायाः कर्त्ता न स्यादित्यनेन १८ गोमटसारादिकर्मग्रन्थाः प्रतिविद्यन्त एव । वा अन्या अपि कर्मपद्धतयः सन्त्येव तैः प्रतिपादितः.