________________
पञ्चास्तिकायसमयसारस्य टीका ।
अथ पुण्यपापपदार्थव्याख्यानम् । [१३१ ] पुण्यपापयोग्यभावस्वभावख्यापनमेतत् । इह हि दर्शनमोहनीयविपाककलुपपरिणामता मोहः । विचित्रचारित्रमोहनीयविपाकप्रत्यये प्रीत्यप्रीती रागद्वेषौ । तस्यैव मन्दोदये विशुद्धपरिणामता चित्तप्रसादपरिणामः । एवमिमे यस्य भावे भवन्ति, तस्यावश्यं भवति शुभोऽशुभो वा परिणामः । तत्र यंत्र प्रशस्तरागश्चित्तप्रसादश्च तत्र शुभः परिणामः । यत्र मोहद्वेपावप्रशस्तरागश्च तत्राऽशुभ इति ॥
[१३२] पुण्यपापखरूपाख्यानमेतत् । जीवस्य कर्तुः निश्चयमतापन्नः शुभपरिणामो द्रव्यपुण्यस्य निमित्तमात्रत्वेन कारणीभूतत्वात्तदास्रवक्षणादूर्ध्व भवति भावपुण्यम् । एवं जीवस्य कर्तुनिश्चयकर्मतामापन्नोऽशुभपरिणामो द्रव्यपापस्य निमित्तमात्रत्वेन कारणीभूतत्वात्तदास्रवक्षणादूर्ध्व भावपापम् । पुद्गलस्य कर्तृनिश्चयकर्मतामापन्नो विशिष्टप्रकृतित्वपरिणामो जीवशुभपरिणामनिमित्तो द्रव्यपुण्यम् । पुद्गलस्य कर्तृनिश्चयकर्मतामापन्नोऽविशिष्टप्रकृतित्वपरिणामो जीवाऽशुभपरिणामनिमित्तो द्रव्यपापम् । एवं व्यवहारनित्रयाभ्यामात्मनो मूर्तममूर्तश्च कर्म प्रज्ञापितमिति ॥ _ [१३३ ] मूर्तकर्मसमर्थनमेतत् । यतो हि कर्मणां फलभूतः सुखदुःखहेतुविषयो मूर्ती, मूर्तरिन्द्रियैजीवेन नियतं भुज्यते । ततः कर्मणां मूर्तत्वमनुमीयते । तथाहि-मूर्तं कर्म मूर्तसंवन्धेनानुभूयमानं मूर्तफलत्वादाखुविषवदिति ॥
[ १३४ ] मूर्तकर्मणोरमूर्तजीवमूर्तकर्मणोश्च बन्धप्रकारसूचनेयम् । इह हि संसारिणि जीवेऽनादिसंतानेन प्रवृत्तमास्ते मूर्तकर्म । तत्स्पर्शादिमत्त्वादागामि मूर्तकर्म स्पृशति । ततस्तन्मूर्त तेन सह स्नेहगुणवशाद्वन्धनमनुभवति । एष मूर्तयोः कर्मणोर्वन्धप्रकारः । अथ निश्चयनयेनाऽमूर्ती जीवोऽनादिमूर्तकर्मनिमित्तरागादिपरिणामस्निग्धः सन्, विशिष्टतया मूर्त्तानि कर्माण्यवाहते । तत्परिणामनिमित्तलव्धात्मपरिणामैः मूर्तकर्मभिरपि विशिष्टतयाऽवगाह्यते च । अयं त्वन्योन्यावगाहात्मको जीवमूर्तकर्मणोर्वन्धप्रकारः । एवममूर्तस्यापि जीवस्य मूर्तेन पुण्यपापकर्मणा कथञ्चिद्वन्धो न विरुध्यते ॥
इति पुण्यपापपदार्थव्याख्यानम् ।
अथास्रवपदार्थव्याख्यानम् । [ १३५ ] पुण्याखवस्वरूपाख्यानमेतत् । प्रशस्तरागोऽनुकम्पापरिणतिः चित्तस्याकलुपत्वञ्चेति त्रयः शुभा भावाः । द्रव्यपुण्यासवस्य निमित्तमात्रत्वेन कारणभूतत्वात्तदास्रवक्षणादूर्ध्व भावपुण्यास्रवः । तन्निमित्तः शुभकर्मपरिणामो योगद्वारेण प्रविशतां पुद्गलानां द्रव्यपुण्यासवस्य निमित्तमात्रत्वेन कारणभूतत्वात्तदास्रवक्षणादृ भावपुण्यासवः । तन्निमित्तः शुभकर्मपरिणामो योगद्वारेण प्रविशतां पुद्गलानां द्रव्यपुण्याखब इति ॥
[१३६] प्रशस्तरागस्वरूपाख्यानमेतत् । अर्हत्सिद्धसाधुपु भक्तिधर्म व्यवहारचारित्रानुष्ठाने वासना प्रधाना चेष्टा । गुरूणामाचार्यादीनां रसिकत्वेनानुगमनम् । एपः प्रशस्तो रागः प्रशस्तविषयत्वात् ।
१ निर्मलपरिणामः. २ परिणामयोर्मध्ये. ३ यस्मिन् जीवे. ४ अशुद्धनिश्चयनयेन. ५ पूर्व. ६ सनीचीनप्रवृत्तयः. ७ द्रव्यकर्म- ८ मृपकविषवत्. ९ आगामिमृर्तकर्म-. १० निश्चयनयेन जीवः अमृतोऽस्ति परन्तु अनादिमूर्तकर्मनिमित्तरागादिपरिणामस्निग्धः सन विशिष्टतया मृर्तानि कर्माणि अवगाहते.