________________
पञ्चास्तिकायसमयसारस्य टीका । तदर्धा स्कन्धप्रदेशो नाम पर्यायः । एवं भेदवशावथणुकस्कन्धादनन्ताः स्कन्धप्रदेशपर्यायाः। निर्विभागैकप्रदेशः स्कन्धस्याभेदपरमाणुरेकः । पुनरपि द्वयोः परमाण्वोः संघातादेको द्वथणुकस्कन्धपर्यायः । एवं संघातवशादनन्ताः स्कन्धपर्यायाः । एवं भेदसंघाताभ्यामप्यनन्ता भवन्तीति ॥
[७६ ] स्कन्धानां पुद्गलव्यवहारसमर्थनमेतत् । स्पर्शरसवर्णगन्धगुणविशेषैः पट्स्थानपतितवृद्धिहानिभिः पूरणगलनधर्मत्वात् स्कन्धव्यक्त्याविर्भावतिरोभावाभ्यामपि च पूरणगलनोपपत्तेः परमाणवः पुद्गला इति निश्चीयन्ते । स्कन्धास्त्वनेक पुद्गलमयैकपर्यायत्वेन पुद्गलेभ्योऽनन्यत्वात्पुद्गला इति व्यवह्रियन्ते । तथैव च वादरसूक्ष्मत्वपरिणामविकल्पैः पट्प्रकारतामापद्य त्रैलोक्यरूपेण निष्पद्य स्थितवन्त इति । तथाहि-बादरवादराः, वादराः, बादरसूक्ष्माः, सूक्ष्मवादराः, सूक्ष्माः, सूक्ष्मसूक्ष्माः इति । तत्र छिन्नाः स्वयं संधानासमर्थाः काठपाषाणादयो बादरवादराः । छिन्नाः स्वयं संधानसमर्थाः क्षीरघृततैलतोयरसप्रभृतयो वादराः । स्थूलोपलम्भा अपि छेत्तुं भेत्तुमादातुमशक्या छायाऽऽतपतमोज्योत्स्नादयो वादरसूक्ष्माः । सूक्ष्मत्वेऽपि स्थूलोपलम्भाः स्पर्शरसगंधवर्णशब्दाः सूक्ष्मवादराः । सूक्ष्मत्वेऽपि हि करणानुपलभ्याः कर्मवर्गणादयः सूक्ष्माः । अत्यन्तसूक्ष्माः कर्मवर्गणाभ्योऽधो द्वयणुकस्कन्धपर्यन्ताः सूक्ष्मसूक्ष्मा इति ॥
[७७ ] परमाणुव्याख्येयम् । उक्तानां स्कन्धपायाणां योऽन्त्यो भेदः स परमाणुः । स तु पुनर्विभागाभावादविभागी । निर्विभागैकप्रदेशत्वादेकः । मूर्तद्रव्यत्वेन सदाप्यविनश्वरत्वान्नित्यः । अनादिनिधनरूपादिपरिणामोत्पन्नत्वान्मूर्तिभवः । रूपादिपरिणामोत्पन्नत्वेऽपि शब्दस्य परमाणुगुणत्वाभावात्पुद्गलस्कन्धपव्यत्वेन वक्ष्यमाणत्वाचाशब्दो निश्चीयत इति ॥
७८ ] परमाणूनां जात्यन्तरत्वनिरासोऽयम् । परमाणोहि मूर्तत्वनिवन्धनभूताः स्पर्शरसगन्धवी आदेशमात्रेणैव भिद्यन्ते । वस्तुतस्तु यथा तस्य स एव प्रदेश आदिः, स एव मध्यः स एवान्तः इति । एवं द्रव्यगुणयोरविभक्तप्रदेशत्वात् य एव परमाणोः प्रदेशः स एव स्पर्शस्य, स एव गन्धस्य, स एव रूपस्येति । ततः चित्परमाणो गन्धगुणे, क्वचित् गन्धरसगुणयोः, कचित् गन्धरसरूपगुणेषु अपकृष्यमाणेषु तदविभक्तप्रदेशः परमाणुरेव विनश्यतीति । न तदपको थुक्तः । ततः पृथिव्यप्तेजोवायुरूपस्य धातुचतुष्कस्यैक एव परमाणुः कारणं । परिणामवशात् विचित्रो हि परमाणोः परिणामगुण, छचित्कस्यचिद्गुणस्य व्यक्ताव्यक्तत्वेन विचित्रां परिणतिमादधाति । यथा च तस्य परिणामवशा
व्यक्तो गन्धादिगुणोऽस्तीति प्रतिज्ञायते न तथा शब्दोऽप्यव्यक्तोऽस्तीति ज्ञातुं शक्यते । तस्यैकप्रदेशत्यानेकप्रदेशात्मकेन शब्देन सहैकत्वविरोधादिति ॥
[७९ ] शब्दस्य पुद्गलसंघपर्यायत्वख्यापनमेतत् । इह हि वाह्यश्रवणेन्द्रियावलम्बितो भावेन्द्रियपरिच्छेखो ध्वनिः शब्दः । स खलु स्वरूपेणानन्तपरमाणूनामेकस्कन्धो नाम पर्यायः । बहिरङ्गसाधनीभृतमहात्कन्धेभ्यः तथाविपरिणामेन समुत्पद्यमानत्वात् स्कन्धप्रभवः । यतो हि परस्पराभिहतेषु महात्कन्धेपु शब्दः समुपजायते । किंच स्वभावनिर्वृत्ताभिरेवानन्तपरमाणुमयीभिः शब्दयोग्यवर्गणाभि
१ अस्तित्वप्रीयत्वादयतु सामान्यगुणात्सपां द्रव्याणां मध्ये साधारणरूपेण विद्यन्ते । पुनः स्पर्शरसगन्धवर्णगुणातु पुलद्रव्ये एव विद्यन्ते। अत एव गुणविशेषाः कथ्यन्ते. २ वर्णगन्धरसस्पर्शः पूरणं गलनं पुर्वन्ति स्वन्धदत्तत्मात्पुद्गला परनाणवः. : द्विप्रदेशादिस्कन्धानां पुद्गललग्रहण प्रदेशपूरणगलनरूपत्वात् . ४ पृथन कियन्ते. ५ पूर्वोक्तेषु एतेषु गुणेपु अपकृप्यमागेषु नौणतां प्राप्तेषु सत्सु. ६ तस्य परमाणोरपको विनायो न युतः. ७ परमाणो. सहाव्दपारण. ९ अन्योन्नसंघटितेपु.