________________
२०
रायचन्द्रजैनशास्त्रमालायाम् रन्योन्यमनुप्रविश्य समन्ततोऽभिव्याप्य पूरितेऽपि सकले लोके यत्र यत्र बहिरङ्गकारणसामग्री समुदेति तत्र तत्र तोः शब्दत्वेन स्वयं व्यपरिणमन्त इति शब्दस्य नियतमुत्पाद्यत्वात् स्कन्धप्रभवत्वमिति ॥
[८०] परमाणोरेकप्रदेशत्वख्यापनमेतत् । परमाणुः स खल्वेकेन प्रदेशेन रूपादिगुणसामान्यभाजा सर्वदैवाविनश्वरत्वान्नित्यः । एकेन प्रदेशेन तदविभक्तवृत्तीनां स्पर्शादिगुणानामवकाशदानान्नानवकोशः । एकेन प्रदेशेन द्वयादिप्रदेशाभावादात्मादिनात्ममध्येनात्मान्तेन न सावकांशः। एकेन प्रदेशेन स्कन्धानां भेदनिमित्तत्वात् स्कन्धानां भेत्ता । एकेन प्रदेशेन स्कन्धसंघातनिमित्तत्वात्स्कन्धानां कर्ता । एकेन प्रदेशेनैकाकाशप्रदेशातिवर्तिततद्गतिपरिणामापन्नेन समयलक्षणकालविभागकरणात् कालस्य प्रविभक्ता। एकेन प्रदेशेन तत्सूत्रितद्वयादिभेदपूर्विकायाः स्कन्धेषु द्रव्यसंख्यायाः, एकेन प्रदेशेन तद्वच्छिन्नैकाकाशप्रदेशपूर्विकायाः क्षेत्रसंख्यायाः, एकेन प्रदेशेनैकाकाशप्रदेशातिवर्तिततद्गतिपरिणामावच्छिन्नसमयपूर्विकायाः कालसंख्यायाः, एकेन प्रदेशेन तद्विवर्तिजघन्यवर्णादिभात्रावबोधपूर्विकाया भावसंख्यायाः प्रविभागकरणात् प्रविभक्ता संख्याया अपीति ॥
[८१] परमाणुद्रव्ये गुणपर्यायवृत्तिप्ररूपणमेतत् । सर्वत्रापि परमाणौ रसवर्णगन्धस्पर्शाः सहभुवो गुणाः । ते च क्रमप्रवृत्तैस्तत्र स्वपर्यायैर्वर्तन्ते । तथाहि-पञ्चानां रसपायाणामन्यतमेनैकेनैकदा रसो वर्तते । पञ्चानां वर्णपर्यायाणामन्यतमेनैकेनैकदा वर्णों वर्तते । उभयोर्गन्धपायोरन्यतरेणैकेनेकदा गन्धो वर्तते । चतुर्णा शीतस्निग्धशीतरूक्षोष्णस्निग्धोष्णरूक्षरूपाणां स्पर्शपायद्वन्द्वानामन्यतमेनकेनैकदा स्पर्शो वर्तते । एवमयमुक्तगुणवृत्तिः परमाणुः शब्दस्कन्धपरिणतिशक्तिस्वभावात् शब्दकारणं। एकप्रदेशत्वेन शब्दपर्यायपरिणतिवृत्त्यभावादशब्दः । स्निग्धरूक्षत्वप्रत्ययबन्धवशादनेकपरमाण्वेकत्वपरिणतिरूपस्कन्धान्तरितोऽपि स्वभावमपरित्यजन्नुपात्तसंख्यत्वादेकमेव द्रव्यमिति ॥
[८२] सकलपुद्गलंविकल्पोपसंहारोऽयम् । इन्द्रियविषयाः स्पर्शरसगन्धवर्णशब्दाश्च, द्रव्येन्द्रियाणि स्पर्शनरसनप्राणचक्षुःश्रोत्राणि, कायाः औदारिकवैक्रियकाहारकतैजसकार्मणानि, द्रव्यमनोद्रव्यकर्माणि नोकर्माणि, विचित्रपर्यायोत्पत्तिहेतवोऽनन्ताऽनन्ताणुर्वगणाः, अनन्ताऽसंख्येयाणुवर्गणाः, अनन्ताः संख्येयाणुवर्गणाः, द्वयणुकस्कन्धपर्यन्ताः परमाणवश्व, यदन्यदपि मूर्ती तत्सर्वं पुद्गलविकल्पत्वेनोपसंहर्तव्यमिति ॥
इति पुद्गलद्रव्यास्तिकायव्याख्यानं समाप्तम् ।
अथ धर्माधर्मद्रव्यास्तिकायव्याख्यानम् । [८३ ] धर्मस्वरूपाख्यानमेतत् । धर्मो हि स्पर्शरसगन्धवर्णानामत्यन्ताभावादमूर्तस्वभावः । तत एवं चाशब्दः । सकललोकाकाशाभिव्याप्यावस्थितत्वाल्लोकावगाढः । अयुतसिद्धप्रदेशत्वात् स्पृष्टः । स्वभावादेव सर्वतो विस्तृतत्वात्पृथुलः । निश्चयनयेनैकप्रदेशोऽपि व्यवहारनयेनाऽसंख्यातप्रदेश इति ॥
[८४ ] धर्मस्यैवावशिष्टस्वरूपाख्यानमेतत् । अपि च धर्मः अगुरुलघुभिर्गुणैरगुरुलघुत्वाभिधानस्य स्वरूपप्रतिष्ठत्वनिवन्धनस्य स्वभावस्याविभागपरिच्छेदैः प्रतिसमयसंभवत्पट्स्थानपतितद्धिहानिभिरनन्तैः सदापरिणतत्वादुत्पादव्ययवत्वेऽपि स्वरूपादप्रच्यवनान्नित्यः । गतिक्रियापरिणतानामुँदासीनाऽविनाभूतसहायमानत्वात्कारणभूतः । स्वास्तित्वमात्रनिर्वृत्तत्वात् स्वयमकार्य इति ॥
१ शब्दयोग्यपुद्गलवर्गणाः. २ अवकाशरहित इत्यर्थः. ३ अवकाशसहित इयर्थः. ४ अङ्गीकर्तव्यम् । ५ धर्म विना गमनं नास्ति. ६ जीवपुद्गलानाम्.