________________
१८
रायचन्द्रजैनशास्त्रमालायाम् माना निश्चयेन सुखदुःखरूपात्मपरिणामानां; व्यवहारेणेप्टानिष्टविषयाणां निमित्तमात्रत्वात्पुद्गलकायाः सुखदुःखरूपं फलं प्रयच्छन्ति । जीवाश्च निश्चयेन निमित्तमात्रभूतद्रव्यकर्मनिवर्तितमुखदुःखस्वरूपात्मपरिणामानां व्यवहारेण द्रव्यकर्मोदयापादितेष्टानिष्टविषयाणां भोक्तृत्वात्तथाविधं फलं भुञ्जते इति । एतेन जीवस्य भोक्तृत्वगुणोऽपि व्याख्यातः ॥
[ ६८ ] कर्तृत्वभोक्तृत्वव्याख्योपसंहारोऽयम् । तत एतत् स्थितं निश्चयेनात्मनः कर्म कर्तृ, बवहारेण जीवभावस्य । जीवोऽपि निश्चयेनात्मभावस्य कर्ता व्यवहारण कर्मण इति । यथानोभयनयाभ्यां कर्म कर्तृ, तथैकेनापि नयेन न भोक्तृ । कुतः चैतन्यपूर्वकानुभूतिसद्भावाभावात् । ततश्चेतनत्वात्केवल एव जीवः कर्मफलभूतानां कथंचिदात्मनः सुखदुःखपरिणामानां कथंचिदिष्टानिष्टविपयाणां भोक्ता प्रसिद्ध इति ॥
[६९ ] कर्मसंयुक्तत्वमुखेन प्रभुत्वगुणव्याख्यानमेतत् । एवमयमात्मा प्रकटितप्रभुत्वशक्तिः स्वकैः कर्मभिगृहीतकर्तृत्वभोक्तृत्वाधिकारोऽनादिमोहावच्छिन्नत्वादुपजातविपरीताभिनिवेशः प्रत्यस्तमितसम्यग्ज्ञानज्योतिः सान्तमनन्तं वा संसारं परिभ्रमतीति ॥
[७० ] कर्मवियुक्तत्वमुखेन प्रभुत्वगुणव्याख्यानमेतत् । अयमेवात्मा यदि जिनाच्या मार्गमुपगम्योपशान्तक्षीणमोहत्वात्प्रहीणविपरीताभिनिवेशः समुद्भिन्नसम्यग्ज्ञानज्योतिः कर्तृत्वभोक्तृत्वाधिकार परिसमाप्य सम्यक्प्रकटितप्रभुत्वशक्तिमा॑नस्यैवानुमार्गेण चरति, तदा विशुद्धात्मतत्योपलम्भनरूपमपवर्गनगरं विगाहत इति ॥
_____ अथ जीवविकल्पा उच्यन्ते । [७१-७२ ] स खलु जीवो महात्मा नित्यचैतन्योपयुक्तत्वादेक एव । ज्ञानदर्शनभेदादिविकल्पः । कर्मफलकार्यज्ञानचेतनाभेदेन लक्ष्यमाणत्वात्रिलक्षणः। श्रौव्योत्पादविनाशभेदेन वा चतस्यु गतिपु चंक्रमणत्वाच्चतुश्चमणः । पञ्चभिः पारिणामिकौदयिकादिभिरग्रगुणैः प्रधानत्वात् पञ्चाग्रगुणप्रधानः । चतसृषु दिक्षुर्ध्वमधश्चेति भवान्तरसंक्रमणपटेनापक्रमेण युक्तत्वात् षटापक्रमयुक्तः । अस्तिनास्त्यादिभिः सप्तभङ्गैः सद्भावो यस्येति सप्तभङ्ग-सद्भावः । अष्टानां कर्मणां गुणानां वा आश्रयत्वादृष्टाश्रयः । नवपदार्थरूपेण वर्तनान्नवार्थः । पृथिव्यप्तेजोवायुवनस्पतिसाधारणप्रत्येकद्वित्रिचतुःपञ्चेन्द्रियरूपेषु दशसु स्थानेषु गतत्वाद्दशस्थानग इति ॥ [७३ ] बद्धजीवस्य पगतयः कर्मनिमित्ताः । मुक्तस्याप्यूर्ध्वगतिरेका स्वाभाविकीत्यत्रोक्तम् ।
इति जीवद्रव्यास्तिकायव्याख्यानं समाप्तम् ।
अथ पुद्गलद्रव्यास्तिकायव्याख्यानम् । [७४ ] पुद्गलद्रव्यविकल्पादेशोऽयम् । पुद्गलद्रव्याणि हि कदाचित् स्कन्धपर्यायेण, कदाचित् स्कन्धदेशप-येण, कदाचित् स्कन्धप्रदेशप-येण, कदाचित् परमाणुत्वेनात्र तिष्ठन्ति । नान्यागतिरस्ति । इति तेषां चतुर्विकल्पत्वमिति ॥
[७५ ] पुद्गलद्रव्यविकल्पनिर्देशोऽयम् । अनन्तानन्तपरमाण्वारब्धोऽप्येकः स्कन्धनाम पायः । तदर्ध स्कन्धदेशो नाम पर्यायः। तदर्धाध स्कन्धप्रदेशो नाम पायः। तद स्कन्धदेशो नाम पायः । १ खकीयस्य. २ निराकृत्य. ३ लोके.