________________
पञ्चास्तिकायसमयसारस्य टीका । [६० ] पूर्वसूचोदितपूर्वपक्षसिद्धान्तोऽयम् । व्यवहारेण निमित्तमात्रत्वाज्जीवभावस्य कर्म कर्तृ, कर्मणोऽपि जीवभावः कर्ता । निश्चयेन तु न जीवभावानां कर्म कर्तृ, न कर्मणो जीवभावः । न च ते' कर्तारमन्तरेण संभूयते । यतो निश्चयेन जीवपरिणामानां जीवः कर्ता, कर्मपरिणामानां कर्म कर्तृ इति ॥
[६१ ] निश्चयेन जीवस्य स्वभावानां कर्तृत्वं पुद्गलकर्मणामकर्तृत्वं चागमेनोपदर्शितमत्र इति ॥
[६२] अत्र निश्चयेनाभिन्नकारकत्वात् कर्मणो जीवस्य च स्वयं स्वरूपकर्तृत्वमुक्तम् । कर्म खलु कर्मत्वप्रवर्तमानपुद्गलस्कन्धरूपेण कर्तृतामनुविभ्राणं कर्मत्वगमनशक्तिरूपेण करणतामात्मसात्कुर्वत् प्राप्यकर्मत्वपरिणामरूपेण कर्मतां कलयत् पूर्वभावव्यपायेऽपि ध्रुवत्वालम्बनादुपात्तापादानत्वमुपजायमानपरिणामरूपकर्मणाश्रीयमाणत्वादुपोढसंप्रदानत्वमाधीयमानपरिणामाधारत्वाद्गृहीताधिकरणत्वं स्वयमेव षट्कारकीरूपेण व्यवतिष्ठमानं न कारकान्तरमपेक्षते । एवं जीवोऽपि भावपर्यायेण प्रवर्तमानात्मद्रव्यरूपेण कर्तृतामनुविभ्राणो भावपव्यगमनशक्तिरूपेण करणतामात्मसात्कुर्वन्, प्राप्यभावपर्यायरूपेण कर्मतां कलयन् , पूर्वभावपर्यायव्यपायेऽपि ध्रुवत्वालम्बनादुपात्तापादानत्वः, उपजायमानभावपर्यायरूपकर्मणाश्रीयमाणत्वादुपोढसंप्रदानत्वः, आधीयमानभावपर्यायाधारत्वाद्गृहीताधिकरणत्वः स्वयमेव षट्कारकीरूपेण व्यवतिष्ठमानो न कारकान्तरमपेक्षते । अतः कर्मणः कर्तुर्नास्ति जीवः कर्ता, जीवस्य कर्तुर्नास्ति कर्म कर्तृ निश्चयेनेति ॥ [६३ ] कर्मजीवयोरन्योन्याकर्तृत्वेऽन्यदत्तफलान्योपभोगलक्षणदूषणपुरःसरः पूर्वपक्षोऽयम् ॥
अथ सिद्धान्तसूत्राणि । [६४ ] कर्मयोग्यपुद्गला अन्नचूर्णपूर्णसमुद्गकन्यायेन सर्वलोकव्यापित्वाद्यत्रात्मा तत्रानानीता एवावतिष्ठन्त इत्यत्रोक्तम् ॥
[६५] अन्याकृतकर्मसंभूतिप्रकारोक्तिरियम् । आत्मा हि संसारावस्थायां पारिणामिकचैतन्यस्वभावमपरित्यजन्नेवानादिवन्धनबद्धत्वादनादिमोहरागद्वेषस्निग्धैरविशुद्धैरेव भावविवर्तते । स खलु यत्र यदा मोहरूपं, रागरूपं, द्वेषरूपं वा स्वस्य भावमारभते । तत्र तदा तमेव निमित्तीकृत्य जीवप्रदेशेषु परस्परावगाहेनानुप्रविष्टाः स्वभावैरेव पुद्गलाः कर्मभावमापद्यन्त इति ॥
[६६ ] अनन्यकृतत्वं कर्मणां वैचित्र्यस्यात्रोक्तम्। यथा हि स्वयोग्यचन्द्रार्कप्रभोपलम्भे संध्याभ्रेन्द्रचापपरिवेषप्रभृतिभिर्बहुभिः प्रकारैः पुद्गलस्कन्धविकल्पाः कत्रन्तरनिरपेक्षा एवोत्पद्यन्ते । तथा स्वयोग्यजीवपरिणामोपलम्भे ज्ञानावरणप्रभृतिभिर्वहुभिप्रकारैः कर्माण्यपि कर्वन्तरनिरपेक्षाण्येवोत्पद्यन्ते इति॥
[६७ ] निश्चयेन जीवकर्मणोश्चैककर्तृत्वेऽपि व्यवहारेण कर्मदत्तफलोपलम्भो जीवस्य न विरुध्यत इत्यत्रोक्तम् । जीवा हि मोहरागद्वेषस्निग्धत्वात्पुद्गलस्कन्धाश्च स्वभावस्निग्धत्वाद्वन्धावस्थायां परमाणुद्वन्द्वानीवान्योन्यावगाहग्रहणप्रतिवद्धत्वेनावतिष्ठन्ते । यदा तु "ते परस्परं वियुज्यन्ते, तदोदितप्रच्यव
५ भावकर्मणी अत्र द्विवचनम्. २ अन्यपट्कारकाणि न वाञ्छते. ३ रागद्वेपरूपेण भावकर्मणा. ४ निश्चयतः. ५ 'समुद्गकः' इत्युत्ते 'संपुटकः' इत्यर्थो भवति; तथाचोक्कममरकोशे नृवर्गे “समुद्कः संपुटकः" इति । अजनवणेन मर्दिताजनेन यथा समुद्गकः संपुटकः कन्जलधरसंभृतो भवति तथा पद्रव्यर्लोकः संभृतो. ऽस्तीति भावः. ६ आत्मा. ७ रागद्वेपरूपमात्मभावम्. ८ अन्यकर्तारं विना. ९ उपादानरूपेण निजनिज. सम्पत्वेऽपि. १० जीवपुद्गलस्कन्धाः.