________________
१६
रायचन्द्रजैनशास्त्रमालायाम् [५४ ] जीवस्य भाववशात्सादिसनिधनत्वे साद्यनिधनत्वे च विरोधपरिहारोऽयम् । एवं हि पञ्चभिर्भावैः स्वयं परिणममानस्याऽस्य जीवस्य कदाचिदौदायिकेनैकेन मनुष्यत्वादिलक्षणेन भावेन सतो विनाशस्तथा परेणौदयिकेनैव देवत्वादिलक्षणेन भावेन असत उत्पादो भवत्येव । एतच्च 'न सतो विनाशो नासत उत्पाद' इति पूर्वोक्तसूत्रेण सह विरुद्धमपि न विरुद्धम् । यतो जीवस्य द्रव्यार्थिकनयादेशेन न सत्प्रणाशो नासदुत्पादः । तस्यैव पर्यायार्थिकनयादेशेन सत्प्रणाशो सदुत्पादश्च । न चैतदनुपपन्नम् । नित्ये जले कल्लोलानामनित्यत्वदर्शनादिति ॥
[ ५५ ] जीवस्य सदसद्भावोच्छित्युत्पत्तिनिमित्तोपाधिप्रतिपादनमेतत् । यथा हि जलराशेर्जलराशित्वेनासदुत्पादं सदुच्छेदं चाननुभवतश्चतुर्थ्यः ककुबिभागेभ्यः क्रमेण वहमानाः पवमानाः कल्लोलानामसदुत्पादं सदुच्छेदं च कुर्वन्ति । तथा जीवस्याऽपि जीवत्वेन सदुच्छेदमसदुत्पत्तिं चाननुभवतः क्रमेणोदीयमानाः नारकतिर्यङ्मनुष्यदेवनामप्रकृतयः सदुच्छेदमसदुत्पादं च कुर्वन्तीति ॥
[५६ ] जीवस्य भावोदयवर्णनमेतत् । कर्मणां फलदानसमर्थतयोद्भतिरुदयः । अनुइँतिरुपशमः । उद्भूत्यनुभूती क्षयोपशमः । अत्यन्तविश्लेषः क्षयः । द्रव्यात्मलाभहेतुकः परिणामः । तत्रोदयेन युक्त औदायिकः । उपशमेन युक्त औपशमिकः । क्षयोपशमेन युक्तः क्षायोपशमिकः । क्षयेण युक्तः क्षयिकः । परिणामेन युक्तः पारिणामिकः । त एते पञ्च जीवेंगुणाः । तत्रोपाधिचतुर्विधत्वनिवन्धनाश्चत्वारः । स्वभावनिबन्धन एकः । एते चोपाधिभेदात् स्वरूपभेदाच भिद्यमाना बहुष्वर्थेषु विस्तार्यन्त इति ॥
[५७ ] जीवस्यौदयिकादिभावानां कर्तृत्वप्रकारोक्तिरियम् । जीवेन हि द्रव्यकर्म व्यवहारनयेनानुभूयते । तच्चानुभूयमानं जीवभावानां निमित्तमात्रमुपवर्ण्यते । तस्मिन्निमित्तमात्रभूते जीवेन कर्तृत्वभूतेनात्मनः कर्मभूतो भावः क्रियते । अमुना यो येन प्रकारेण जीवेन भावः क्रियते, स जीवस्तस्य भावस्य तेन प्रकारेण कर्ती भवतीति ॥
[५८] द्रव्यकर्मणां निमित्तमात्रत्वेनौदयिकादिभावकर्तृत्वमत्रोक्तम् । न खलु कर्मणा विना जीवस्योदयोपशमौ क्षयक्षायोपशमावपि विद्यते । ततः क्षायिकक्षायोपशमिकश्चौदयिकौपशमिकश्च भावः कर्मकृतोऽनुमन्तव्यः । पारिणामिकस्त्वनादिनिधनो निरुपाधिः स्वाभाविक एव । झायिकस्तु स्वभावव्यक्तिरूपत्वादनन्तोऽपि कर्मणः क्षयेनोत्पद्यमानत्वात् सादिरिति कर्मकृत एवोक्तः। भौपशमिकस्तु कर्मणामुपशमे समुत्पद्यमानत्वादनुपशमे समुच्छिद्यमानत्वात् कर्मकृत एवेति । अथवा उदयोपशमक्षयक्षयोपशमलक्षणाश्चतस्रो द्रव्यकर्मणामेवावस्थाः । न पुनः परिणामलक्षणकावस्थस्य जीवस्य । तत उद्यादिसंजातानामात्मनो भावानां निमित्तमात्रभूततथाविधावस्थत्वेन त्वयं परिणमनाव्यकर्मापि व्यवहारनयेनात्मनो भावानां कर्तृत्वमापद्यत इति ॥
[५९ ] जीवभावस्य कर्मकर्तृत्वे पूर्वपक्षोऽयम् । यदि खल्वौदयिकादिरूपो जीवस्य भावः कर्मणा क्रियते तदा जीवस्तस्य कर्त्ता न भवति । नच जीवस्याकर्तृत्वमिष्यते । ततः पारिशेष्येण द्रव्यकर्मणः कर्ताऽऽपद्यते। तत्तु कथं । यतो निश्चयनयेनात्मा स्वभावमुज्झित्वा नान्यत्किमपि करोतीति ॥
१ अविद्यमानस्य भावस्य. २ अनुपलभ्यमानस्य. ३ वायवः. ४ कर्मणां फलदानसमर्थतयाऽनुद्भतिरनुदयः. ५ नीरागनिर्भरानन्दलक्षणप्रचण्डाखण्डज्ञानकाण्डपरिणतात्मभावनारहितेन मनोवचनकायव्यापाररूपकर्मकाण्ड. परिणतेन च पूर्वं यदुपार्जितं ज्ञानावरणादि कर्म तदुदयागतं व्यवहारेणैव. ६ उपाधिचतुर्विधत्वं निवन्धनं कारणं येषां ते. ७ रागादिपरिणामानामुदयागतं द्रव्यकर्म व्यवहारेण कारणं दर्शयति.