________________
पञ्चास्तिकायसमयसारस्य टीका। मेव स्यात् । न च ज्ञानज्ञानिनोयुतसिद्धयोसंयोगेन चेतनत्वं द्रव्यस्य निर्विशेषस्य गुणानां निराश्रयाणां शून्यत्वादिति ॥
[४९ ] ज्ञानज्ञानिनोः समवायसंवन्धनिरासोऽयम् । ने खलु ज्ञानादर्थान्तरभूतः पुरुषो ज्ञानसमवायात् ज्ञानी भवतीत्युपपन्नं । स खलु ज्ञानसमवायात् पूर्व किं ज्ञानी किमज्ञानी ? । यदि ज्ञानी तदा ज्ञानसमवायो निष्फलः । अथाज्ञानी तदा किमज्ञानसमवायात्, किमज्ञानेन सहैकत्वात् ? । न तावदज्ञानसमवायात् । अथाज्ञानिनो ह्यज्ञानसमवायो निष्फलः । ज्ञानित्यन्तु ज्ञानसमवायाभावात् नास्त्येव । ततोऽज्ञानीति वचनमज्ञानेन सहैकत्वमवश्यं साधयत्येव । सिद्धे चैवमज्ञानेन सहैकत्वे ज्ञानेनाऽपि सहकत्वमवश्यं सिद्धयतीति ॥
[५० ] समवायस्य पदार्थान्तरत्वनिरासोऽयम् । द्रव्यगुणानामेकास्तित्वनिवृत्तत्वादनादिरनिधना सहवृत्तिहि समवर्तित्वम् । स एव समवायो जैनानाम् । तदेव संज्ञादिभ्यो भेदेऽपि वस्तुत्वेनाभेदादपृथग्भूतत्वम् । तदेव युतसिद्धिनिवन्धनत्यास्तित्वान्तरस्याभावादयुतसिद्धत्वम् । ततो द्रव्यगुणानां समवर्तित्वलक्षणसमवायभाजामयुतसिद्धिरेव, न पृथग्भूतत्वमिति ॥
[५१-५२ ] दृष्टान्तदान्तिकार्थपुरस्सरो द्रव्यगुणानामनन्तरत्वव्याख्योपसंहारोऽयम् । वर्णरसगन्धस्पर्शा हि परमाणोः प्ररूप्यन्ते । ते च परमाणोरविभक्तप्रदेशत्वेनानन्यत्वेऽपि संज्ञादिव्यपदेशनिवन्धनैविशेषैरन्यत्वं प्रकाशयन्ति । एवं ज्ञानदर्शने अप्यात्मनि संवद्धे आत्मद्रव्यादविभक्तप्रदेशत्वेनाऽनन्येऽपि संज्ञादिव्यपदेशनिवन्धनैर्विशेषैः पृथक्त्वमासादयतः । स्वभावतस्तु नित्यमपृथक्त्वमेव विभ्रतः ॥
इति उपयोगगुणव्याख्यानं समाप्तं ॥
अथ कर्तृत्वगुणव्याख्यानम् ।
तत्रादिगाथात्रयेण तदुपोद्घातः । [५३ ] जीवा हि निश्चयेन परभावानामकरणात् स्वभावानां कर्त्तारो भविष्यन्ति । तांश्च कुर्वाणाः किमनादिनिधनाः, किं सादिसनिधनाः, किं साद्यनिधनाः, किं तदाकारेण परिणताः, किमपरिणताः भविष्यन्तीत्याशङ्कयेदमुक्तम् । जीवा हि सहजचैतन्यलक्षणपारिणामिकभावेनाऽनादिनिधनाः । त एवौदयिकक्षायोपशमिकौपशमिकमावैः सादिसनिधनाः । त एव क्षायिकभावेन साद्यनिधनाः । नच सादित्वात् सनिधनत्वं क्षायिकभावस्याङ्कयम् । स खलूपाधिनिवृत्तौ प्रवर्तमानः सिद्धभाव इव सद्भाव एव । जीवस्य सद्भावेन चानन्ती एव जीवाः प्रतिज्ञायन्ते । न च तेषामनादिनिधनसहजचैतन्यलक्षणकभावानां सादिसनिधनानि साधनिधनानि भावान्तराणि नोपपद्यन्त इति वक्तव्यम् । ते खल्वनादिकर्ममलीमसाः पक्षसंपृक्ततोयंवत्तदाकारे परिणतत्वात्पञ्चप्रधानगुणप्रधानत्वेनैवानुर्भूयन्त इति ॥ लेदनक्रियां प्रति दात्रं वाह्योपकरणं । वीर्यान्तरायक्षयोपशमजनितः पुरुपशक्तिविशेपस्त्वभ्यन्तरोपकरणं । शक्तेरभा. वे दानोपकरणे हि तयापारे च सति यथा छेदनक्रिया नास्ति, तथा प्रकाशोपाध्यायादिवहिरङ्गसहकारिसद्भावे सत्यभ्यन्तरज्ञानोपकरणाभावे पुरुषस्य पदार्थपरिच्छित्तिक्रिया न भवतीति.
१ अथ ज्ञानज्ञानिनोरत्यन्तभेदे सति समवायसंवन्धेनाप्येकत्वं कर्तुं नायातीति प्रतिपादयति. २ त्वया अजीकृतं चेत्तर्हि शृणु. ३ अथ गुणगुगिनोः कथचिढेकत्वं विहायान्यः कोऽपि समवायो नास्तीति समर्थयति. ४ एवं समवायनियमकरणमुख्यत्वेन गाथाद्वयं गतम्. ५ कथञ्चिद्भिन्नत्वम् । ६ इति नाशयम्. ७ क्षायिकभावः. ८ विनाशरहिताः. कार्दमनंमिश्रजलवत्. १० यद्यपि स्वभावेन विशुद्धास्तथापि व्यवहारेणाना दिकर्मवन्धवशासफार्दमजलपदौयिकादिभावपरिणता दृश्यन्ते.