SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ रायचन्द्रजैनशास्त्रमालायाम् योगपूर्वकम स्तित्वं साधयन्ति । अनुमीयते च धर्माधर्म्माकाशानामृर्थ्याऽधोमध्यलोक विभागरूपेण परिणमनात्कायत्वाख्यं सावयवत्वम् । जीवानामपि प्रत्येक मूर्ध्वाधोमध्यलोक विभागरूपे परिणमनत्वालोकपूरणावस्थाव्यवस्थितव्यक्तस्सदा सन्निहितशक्तेस्तदनुमीयत एव । पुलानामप्यूर्ध्वाधोमध्यलोकविभागरूपपरिणतमहास्कन्धत्वप्राप्तिव्यक्तिशक्तियोगित्वात्तथाविधा सावयवत्वसिद्धिरस्त्येवेति ॥ ४ [ ६ ] अत्र पञ्चास्तिकायानां कालस्य च द्रव्यत्वमुक्तम् । द्रव्याणि हि संहमभुवां गुणपर्यायाणामनन्यतयाssधारभूतानि भवन्ति । ततो वृत्तवर्तमानवर्तिप्यमाणानां भावानां पर्यायाणां स्वरूपेण परिणतत्वादस्तिकायानां परिवर्तनलिङ्गस्य कालस्य चास्ति द्रव्यत्वं । नच तेषां भूतभवद्भविप्यभावात्मना परिणममानानामनित्यत्वम् । यतस्ते भूतभवद्भविष्यद्भावावस्थास्वपि प्रतिनियतस्त्ररूपापरित्यागान्नित्या एव । अंत्र कालः पुद्गलादिपरिवर्तन हेतुत्वात्पुद्गलादिपरिवर्तनगम्यमानपर्यायत्याच्चास्तिकायेप्यन्तर्भावार्थ - परिवर्तनलिङ्ग इत्युक्त इति ॥ [ ७ ] अत्र षण्णां द्रव्याणां परस्परमत्यन्तसंकरेऽपि प्रतिनियतं स्वरूपादप्रच्यवनमुक्तम् । अत एव तेषां परिणामवत्वेऽपि प्राग्नित्यत्वमुक्तम् । अत एव च न तेषामेकत्वापत्तिर्न च जीवकर्मणोर्व्यत्रहारनयादेशादेकत्वेऽपि परस्परस्वरूपोपादानमिति ॥ I [८] अत्रास्तित्वस्वरूपमुक्तम् । अस्तित्वं हि सत्ता नाम सतो भावः । सत्यं न सर्वथा नित्यतया सर्वथा क्षणिकतया वा विद्यमानमात्रं वस्तु । सर्वथा नित्यस्य वस्तुनस्तत्वतः क्रमभुवां भवानामभावा`त्कुतो विकारवत्वम् । सर्वथा क्षणिकस्य च तत्वतः प्रत्यभिज्ञानाभावात् कुत एकसंतानत्वम् । ततः प्रत्यभिज्ञानहेतुभूतेन केनचित्स्वरूपेण श्रौव्यमालम्व्यमानं काभ्यांचित्क्रमप्रवृत्ताभ्यां स्वरूपाभ्यां प्रलीयमानमुपजायमानं चैककालमेव परमार्थतस्त्रितयीमवस्थां विभ्राणं वस्तु सदवबोध्यम् । अत एव सत्ताप्युत्पादव्ययश्रौव्यात्मिकाऽववोद्धव्या । भावभाववैतोः कथंचिदेकस्वरूपत्वात् । सा च त्रिलक्षणस्य समस्तस्यापि वस्तुविस्तारस्य सादृश्यसूचकत्वादेका । सर्वपदार्थस्थिता च । विलक्षणस्य सदित्यभिधानस्य सदिति प्रत्ययस्य च सर्वपदार्थेषु तन्मूलस्यैवोपलम्भात् । सविश्वरूपा च विश्वस्य समस्तवस्तुविस्तारस्यापि रूपैस्त्रिलक्षणैः स्वभावैः सह वर्तमानत्वात् । अनन्तपर्याया चानन्ताभिर्द्रव्यपर्व्यायव्यक्तिभिस्त्रिलक्षणाभिः परिर्गेभ्यमानत्वात् । एवंभूतापि सा न खलु निरङ्कुशा किं तु सप्रतिपक्षा । प्रतिपक्षो ह्यसत्ता सत्तायाः, अत्रिलक्षणत्वं त्रिलक्षणायाः, अनेकत्वमेकस्याः, एकपदार्थस्थितत्वं सर्वपदार्थस्थितायाः, एकरूपत्वम् सर्वविश्वरूपायाः, एकपर्यायत्वमनन्तपर्यायाया इति । द्विविधा हि सत्ता महासत्तावान्तरसत्ता च । तत्र सर्वपदार्थसार्थव्यापिनी सादृश्यास्तित्वसूचिका महासत्ता प्रोक्तव । अन्या तु प्रतिनियमवस्तुवर्तिनी खरूपास्तित्वसूचिकाऽवान्तरसत्ता । तत्र महासत्ताऽवान्तरसत्तारूपेणाऽसत्ताऽवान्तरसत्ता १ शुद्धजीवास्तिकायस्य या अनन्तज्ञानादिगुणसत्ता सिद्धिपर्यायसत्ता च शुद्धा संख्यात प्रदेशरूपं कायत्वमुपादेयमिति २ द्रव्यस्य सहभुवो गुणाः ३ द्रव्यस्य क्रमभुवः पर्यायाः ४ पञ्चास्तिकायाः ५ अत्र पञ्चास्तिकाय प्रकरणे. ६ परिवर्तनमेव पुद्गलादिपरिणमनमेव अधूमवत्कार्यभूतं लिङ्गं चिह्नं गमकं सूचकं यस्य स भवति परिवर्तन लिङ्गका लाणुद्रव्य रूपो द्रव्यकालस्तेन संयुक्तः । ननु कालद्रव्यसंयुक्त इति वक्तव्यं परिवर्तनलिङ्गसंयुक्त इत्यवक्तव्यवचनं किमर्थमिति । नैवं पञ्चास्तिकाय प्रकरणे कालमुख्यता नास्तीति पदार्थानां नवजीर्णपरिणतिरूपेण कायलिङ्गेन ज्ञायते ७ स्वकीय स्वकीय स्वरूपात् ८ तेपां द्रव्याणां निश्चयात् स्वभावात्. १० पर्यायाणाम्. ११ पूर्वानुभूतदर्शनेन जायमानं ज्ञानं प्रत्यभिज्ञानम्. १२ पर्यायाभ्याम् १३ पर्यायद्रव्ययोः परिणामपरिणामिनोर्वा. १४ उत्पादधौव्यव्यययुक्तस्य. १५ अर्थस्य तयोराधारभूतस्य तद्गुणस्य. १६ व्यापकत्वात्. १७ अवान्तरसत्ता.
SR No.010451
Book TitleRaichandra Jain Shastra Mala Panchastikaya Samay Sara
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages157
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy