________________
पञ्चास्तिकायसमयसारस्य टीका। नयेप्रयोगात् । द्वौ हि नयौ भगवता प्रणीतौ द्रव्यार्थिकः पर्यायार्थिकश्च । तत्र न खल्वेकनयायत्ताऽऽदेशनों किन्तु तदुभयायत्ता । ततः पर्यायार्थादेशादस्तित्वे स्वतःकथंचिद्भिन्नेऽपि व्यवस्थिताः द्रव्यार्थादेशात्स्वयमेव सन्तः संतोऽनन्यमयों भवन्तीति । कायत्वमपि तेपामणुमहत्वात् । अणवोऽत्र प्रदेशा मूर्त्ताऽमूर्ताश्च निर्विभागांशास्तैः महान्तोऽणुमहान्तः प्रदेशप्रचयात्मका इति सिद्धं तेषां कोयत्वं । अणुभ्यां महान्त इति व्युत्पत्त्या द्वयणुकपुद्गलस्कन्धानामपि तथाविधत्वम् । अणवश्च महान्तश्च व्यक्तिशक्तिरूपाभ्यामिति परमाणूनामेकप्रदेशात्मकत्वेऽपि तत्सिद्धिः । व्यत्यपेक्षया शक्त्यपेक्षया च प्रदेशप्रचयात्मकस्य महत्वस्याभावात्कालोनामस्तित्वनियतत्वेऽप्यकायत्वमनेनैव साधितम् । अतएव तेषामस्तिकायप्रकरणे सतामप्यनुपादानमिति ॥
[५] अंत्र पञ्चास्तिकायानामस्तित्वसंभवप्रकारः कायत्वसंभवप्रकारश्चोक्तः । अस्ति यस्तिकायानां गुणः पर्यायैश्च विविधैः सह स्वभावो आत्मभावोऽन्यत्वम् । वस्तुनो विशेषी हि व्यतिरेकिणः पर्साया गुणास्तु त एवान्वयिनः । तत एकेन पर्यायेण प्रलीयमानस्सान्येनोपजायमानस्यान्वयिना गुणेन श्रौव्यं विभ्राणस्सैकस्याऽपि वस्तुनः समुच्छेदोत्पादध्रौव्यलक्षणमस्तित्वमुपपद्यतएव । गुणपर्यायैः सह सर्वथान्यत्वे त्वन्यो विनश्यत्यन्यः प्रादुर्भवत्यन्यो ध्रुवत्वमालम्बत इति सर्व विप्लवते । ततः साध्वस्तित्वसंभवप्रकारकथनं । कायत्वसंभवप्रकारस्त्वयमुपदिश्यते । अवयविनो हि जीवपुद्गलधर्माऽधाऽऽकाशपदार्थास्तेमवयवा अपि प्रदेशाख्याः परस्परध्यतिरेकित्वात्पर्याया उच्यन्ते । तेषां तैः सहानन्यत्वे कायत्वसिद्धिरुपैत्तिमती । निरवयवस्यापि परमाणोः सा वयवत्वशक्तिसद्भावात् कायत्वसिद्धिरत एवानपवादा । न चैवं तदा शङ्कयम् पुद्गलादन्येषाममूर्तत्वादविभाज्यानां सावयत्वकल्पनमन्याय्य॑म् । दृश्यत एवाविभाज्येऽपि विहायसीदं घटाकाशमिदमघटाकाशमिति विभागकल्पनम् । यदि तंत्र विभागो न कल्पेत तदा यदेव घटाकाशं तदेवाघटाकाशं स्यात् । न च तदिष्टं । ततः कालाणुभ्योऽन्यत्र सर्वेषां कायत्वाख्यं सावयवत्वमवसेयं । त्र्यैलोक्यरूपेण निष्पन्नत्वमपि तेषामस्तिकायत्वसाधनपरमुपन्यस्तम् । तथाच-त्रयाणामू;ऽधोमध्यलोकानामुत्पादव्ययधौव्यवन्तस्तैदेविशेषात्मका भावा भवन्तस्तेषां मूलपदार्थानां गुणपर्यय
१ द्रव्यपर्यायात्मके वस्तुनि द्रव्ये पर्याय वा वस्तुताध्यवसायो नय इति यावत् । यद्वा स्याद्वादप्रविभक्तार्थविशेपव्यजको नयः. २ तत्र पर्यायाभावात् द्रव्यमेवार्थः प्रयोजनमस्येति द्रव्यार्थिकः. ३ द्रव्याभावात् पर्याय एवार्थः प्रयोजनमस्येति पर्यायार्थिकः. ४ द्वयोर्नययोमध्ये. ५ सर्वज्ञानामुपदेशः. ६ तिष्टमानाः पञ्चास्तिकायाः. ७ विद्यमानाः भवन्तः. ८ अस्तित्वतः. ९ अपृथग्भूताः. १० निर्विभागैरणुभिः. ११ अणुभिः प्रदेशैर्महान्तः अणुमहान्तः यणकस्कन्धापेक्षया द्वाल्यामणुभ्यां महान्त इति कायवमुक्तं । एकप्रदेशाणोः कथं कायत्वमिति चेत् स्कन्धानां कारणभृतायाः स्निग्धरूपत्वशक्तेः सद्भावादुपचारेण कायत्वं भवति. १२ कायत्वसिद्धिः. १३ कालाणूनां पुनर्वन्धकारणभृतायाः स्निग्धरूक्षत्वशक्तेः सदभावादुपचारेण कायत्वं नास्ति. १४ कालाणूनां. १५ विद्यमानानाम्. १६ अथ पूर्वोक्तमस्तित्वं केन प्रकारेण संभवतीति प्रतिज्ञापयति. १७ सहभुवो गुणाः. १८ व्यतिरेकिणः पर्यायैः. १९ अभिन्नत्वं. २० वस्तुनः द्रव्यस्य. २१ केवलज्ञानादयो गुणाः. २२ एकस्यापि वस्तुनो भूतभाविभवत्पर्यायभंदपु वर्तमानस्य यदनुगतप्रत्ययोत्पादकं सोऽन्वयः स एपामिति ते अन्वयिनः. २३ भिन्नत्वे. २४ विनश्यति. २५ प्रदेशाच्या अवयवाः विद्यन्ते येषां ते अवयविनः. २६ तेषां जीवादिपदार्थानाम् त्रिभुवनाकारपरिणतानां सावयवत्वात सः प्रदेशाड्यः. २७ अन्योन्यभिन्नत्वात् भिन्नत्वात् पृथग्भावाद्वा. २८ अस्तिकायानां. २९ तैः पर्यायः. ३० अभिन्नत्वे. ३१ युक्तिमती. ३२ अपवादरहिता निश्चयसिद्धिरित्यर्थः. ३३ विभागरहितानां अखण्डानां. १४ अयोग्यमिति शहा न कर्तव्या. ३५ विभागरहिते. ३६ आकाशे. ३७ इंटं मान्यं, २८ कालद्रव्यं विहाय कायत्वं च विद्यते इति अङ्गीकर्तव्यम्. ३९ तेपामूर्ध्वाधोमध्यलोकानां.