________________
रायचन्द्रजैनशास्त्रमालायाम् ज्ञानातिशयानामपि योगीन्द्राणां वन्द्यत्वमुदितम् । जितो भव आजवं जवो यैरित्यनेन तु कृतकृत्यत्वप्रकटनात्त एवान्येषामकृतकृत्यानां शरण मित्युपदिष्टम् । इति सर्वपदानां तात्पर्यम् ॥
[ २ ] समयो ह्यागमः । तस्य प्रणामपूर्वकमात्मनाभिधानमंत्र ग्रंतिज्ञातम् । पूज्यते हि स प्रणन्तु. मभिधातुं चाप्तोपदिष्टत्वे सति सफलत्वात् । तत्राप्तोपदिष्टत्वमस्य श्रमणमुखोद्गतार्थत्वात् । श्रमणा हि महाश्रमणाः सर्वज्ञवीतरागाः । अर्थः पुनरनेकशब्दसंवन्धेनाभिधीयमानो वस्तुतयैकोऽभिधेयः। सफलत्वं तु चतसृणां नारकतिर्यग्मनुष्यदेवत्वलक्षणानां गतीनां निवारणत्वात् , साक्षात् पारतत्र्यनिवृत्तिलक्षणन्य निर्वाणस्य शुद्धात्मतत्वोपलम्भरूपस्य परम्परया कारणत्वात् , स्वातन्त्र्यप्राप्तिलक्षणस्य च फलस्य सद्भा. वादिति ॥
[ ३ ] अत्र शब्दज्ञानार्थरूपेण त्रिविधाऽभिधेयता समयशब्दस्य लोकालोकविभागश्चाभिहितः । तंत्र च पश्चानामस्तिकायानां समो मध्यस्थो रागद्वेषाभ्यामनुपहतो वर्णपदवाक्यसन्निवेशविशिष्टः पाठो वादः शब्दसमयः शब्दागम इति यावत् । तेषामेव मिथ्यादर्शनोदयोच्छेदे सति सैन्यगवायः परिच्छेदो ज्ञानसमयो ज्ञानागम इति यावत् । तेपामेवाभिधानप्रत्ययपरिच्छिन्नानां वस्तुरूपेण समवायः संघातोऽर्थसमयः सर्वपदार्थसार्थ इति यावत् । तदत्रै ज्ञानसमयप्रसिद्ध्यर्थ शब्दसमयसंबन्धनार्थसमयोऽभिधातुमभिप्रेतः । अथ तस्यैवार्थसमयस्य द्वैविध्यं लोकालोकविकल्पनात् । स एव पञ्चास्तिकायसमयो यावांस्तावाल्लोकस्ततः परममितोऽनन्तो ह्यलोकः, स तु नाभावमात्रं । किं तु तत्समवायातिरिक्तपरिमाणमनन्तक्षेत्रं खमाकाशमिति ॥
[४ ] अत्र पञ्चास्तिकायानां विशेषसंज्ञा सामान्यविशेषास्तित्वं कोयत्वं चोक्तं । तत्र जीवाः पुगलौः धमाधम्मौ आकौशमिति । तेषां विशेषसंज्ञा अँन्वर्थाः प्रत्येयाः । सामान्यविशेषास्तित्वञ्च तेषामुत्पा
व्ययध्रौव्यमय्यां सामान्यविशेषसत्तायां नियतत्वाद्वयवस्थित्वादेवसेयम् । अस्तित्वे नियंतानामपि न तेषामन्यमयत्वम् । यतस्ते सर्वदेवानन्यमया आत्मनिर्वृत्ताः । अनन्यमयत्वेऽपि तेषामस्तित्वनियतत्वं
१ घातिकर्मापायातिशयप्रतिपादनेन. २ कृतकार्यत्वप्रकाशनात्. ३ अकृतकार्याणाम्. ४ शरणं नान्य इति प्रतिपादितमस्ति. ५ द्रव्यागमरूपशब्दसमयोऽभिधानवाचकः ६ आगमस्य मध्ये. ७ प्रतिज्ञयावधारितम्. ८ अत्र समयव्याख्यायां समयशब्दस्य शब्दज्ञानार्थभेदेन पूर्वोक्तमेव त्रिविधव्याख्यानं वित्रियते पञ्चानां जीवाद्यस्तिकायानां प्रतिपादको वर्णपदवाक्यरूपो वादः पाठः शब्दसमयो द्रव्यागम इति यावत् । तेषां पञ्चानां मिथ्यासोदयाभावे सति संशय, विमोह, विभ्रम, रहितत्वेन सम्यग् यो वोधनिर्णयो निश्चयो ज्ञानसमर्थोऽर्थपरिच्छित्तिर्भावश्रुतरूपो भावागम इति यावत् तेन द्रव्यागमरूपसमयेन वाच्यो भावश्रुतरूपज्ञानसमयेन परिच्छेद्यः पञ्चानामस्तिकायानां समूहः समय इति हि मन्यते । तत्र शब्दसमयाधारेण ज्ञानसमयप्रसिद्ध्यर्थं समयोऽत्र व्याख्यातुं प्रारब्धः ९ त्रिपु समयेपु. १० द्रव्यरूपशब्दसमयः. ११ भावागमसम्यग्ज्ञानम्. १२ ज्ञातानाम्. १३ अत्र ग्रन्थे त्रिपु मध्ये वा. १४ वाञ्छितः प्रारब्धः. १५ लोक्यन्ते दृश्यन्ते जीवादिपदार्था यत्र स लोकः. १६ लोकात्तस्मात् वहिर्भूतमनन्तशुद्धाकाशमलोकः. १७ कायाकायाइव काया वहुप्रदेशोपचयत्वात् शरीरवत्वं प्रतिपादितं. १८ यत्किमपि चिद्रूपं स जीवास्तिकायो भण्यते. १९ यदृश्यमानं किमपि पञ्चेन्द्रिययोग्यं स पुद्गलास्तिकायो भण्यते. २० तयोर्जीवपुद्गलयोर्गतिहेतुलक्षणो धर्मः. २१ स्थितिहेतुलक्षणश्चाधर्मः. २२ अवगाहनलक्षणं. २३ अस्तिकायानां पञ्चानां. २४ यथार्थाः. २५ अस्तित्वे सामान्य विशेषसत्तायां नियताः स्थिताः तर्हि सत्तायाः सकाशात् कुण्डे वदराणीव भिन्ना भविष्यन्ति. २६ निश्चितखात्. २७ . विशेपरहितं ज्ञातव्यं. २८ अविनश्वराणाम्. २९ तेषां पञ्चास्तिकायानां. ३० पृथग्वलम्. ३१ अपृथग्भूताः । यथा घटे रूपादयः शरीरे हस्तादयः । अनेन व्याख्यानेन आधाराधेयभावेऽप्यभिन्नास्तिवम्. ३२ स्वतः निप्पन्नाः. ३३ नियतत्वं निश्चलत्वम्.