________________
ॐ नमः सिद्धेश्यः।
अथ
पञ्चास्तिकायसमयसारस्य श्रीमदमृतचन्द्राचार्यकृता संस्कृतटीका।
मङ्गलाचरणम् । सहजानन्दचैतन्यप्रकाशाय महीयसे । नमोऽनेकान्तविश्रान्तमहिम्ने परमात्मने ॥१॥ दुर्निवारनयानीकविरोधध्वंसनौषधिः। स्यात्कारजीविता जीयाजैनी सिद्धान्त-पद्धतिः ॥२॥ सम्यग्ज्ञानामलज्योतिर्जननी द्विनयाश्रया। अथातः समयव्याख्या संक्षेपेणाऽभिधीयते ॥ ३॥ पञ्चास्तिकायषद्रव्यप्रकारेण प्ररूपणं । पूर्व मूलपदार्थानामिहं सूत्रकृता कृतम् ॥ ४॥ जीवाजीवद्विपर्यायरूपाणां चित्रवर्त्मनाम् । ततो नवपदार्थानां व्यवस्था प्रतिपादिता ॥५॥ ततस्तत्वपरिज्ञानपूर्वण त्रितयात्मना।
प्रोक्ता मार्गेण कल्याणी मोक्षप्राप्तिरपश्चिमा ॥ ६॥ [१] अथात्र 'नमो जिनेभ्यः' इत्यनेन जिनभावनमस्काररूपमसाधारणं शास्त्रस्याऽऽदौ मङ्गलमुपात्तं । अनादिना संतानेन प्रवर्त्तमाना अनादिनैव संतानेन प्रवर्त्तमानैरिन्द्राणां शतैर्वन्दिता ये इत्यनेन सर्वदैव देवाधिदेवत्वात्तेपामेवाऽसाधारणनमस्कारार्हत्वमुक्तम् । त्रिभुवनमूर्ध्वाधोमध्यलोकवर्ती समस्त एव जीवलोकस्तस्मै निर्व्यावाधविशुद्यात्मतत्वोपलम्भोपायाभिधायित्वाद्धितं । परमार्थरसिकजनमनोहारित्वान्मधुरम् । निरस्तसमस्तशंकादिदोषास्पदत्वाद्विशदवाक्यम् । दिव्यो धनिर्येपामित्यनेन समस्तवस्तुयाथात्म्योपदेशित्वात्प्रेक्षावत्प्रतीक्ष्यत्वमाख्यातम् । अन्तमतीतः क्षेत्रानवच्छिन्नः कालानवच्छिन्नश्च परमचैतन्यशक्तिविलासलक्षणो गुणो येषामित्यनेन तु परमाद्भुतीनातिशयप्रकाशनादवाप्त
१ पूयाय गरिष्टाय वा. २ द्रव्यार्थिक-पर्यायार्थिक-भेदेन वा व्यवहारनिश्चयेन. ३ समुच्चयेन. ४ कथ्यते. ५ तावत् प्रथमतः पञ्चास्तिकायषद्रव्यप्रतिपादनरूपेण प्रथमोऽधिकारः. ६ इह ग्रन्थे प्रथमाधिकारे वा. ७ आचार्यण, (मूलकी श्रीवर्धमानः, उत्तरकर्ता श्रीगौतमगणधरः, उत्तरोत्तरकर्ता श्रीकुन्दकुन्दाचार्यः सूत्रकारः) ८ सप्ततत्वनवपदार्थव्याख्यानरूपेण द्वितीयोऽधिकारः ९ पञ्चास्तिकायपद्रव्यनवपदार्थानां ज्ञानपूर्वेण. १० उत्तमा. ११ अनेकभवगह्नव्यसनप्रापणहेतून् कारातीन् जयन्तीति जिनाः तेभ्यः. १२ नमस्कारेण. १३ असदृशम्. १४ मलं पापं गालयतीति मङ्गलम् , वा मङ्गं मुखं तल्लातीति गृह्णातीति मङ्गलं. १५ विशेषणेन वाक्येन वा. १६ जिनानाम. १७ अनन्यसदृशम्. १८ जीवलोकाय त्रिभुवनाय. १९ वीतरागनिर्विकल्पसमाधिसंजातसहजापूर्वपरमानन्दरूपपारमार्थिकमुखरसास्वादसमरसीभावरसिकजनमनोहारित्रात् मधुरम्. २० प्रकृष्टाश्चर्यदानप्रतापप्रकाशनात् ।