________________
पञ्चास्तिकायसमयसारस्य टीका ।
च महासत्तारूपेणाऽसत्तेत्यसत्ता सत्तायाः । येन स्वरूपेणोत्पादस्तत्तथोत्पादै कलक्षणमेव येन स्वरूपेणोच्छेदस्तत्तथोच्छेदैकलक्षणमेव येन स्वरूपेण श्रौव्यं तत्तथा धौव्यैकलक्षणमेव तत उत्पद्यमानो - च्छिद्यमानाऽवतिष्ठमानानां वस्तुनः स्वरूपाणां प्रेत्येकं त्रैलक्षण्याभावाद विलक्षणत्वं त्रिलक्षणायाः । एकस्य वस्तुनः स्वरूपसत्ता नान्यस्य वस्तुनः स्वरूपसत्ता भवतीत्यनेकत्वमेकस्याः । प्रतिनियतपदार्थस्थिताभिरेव सत्ताभिः पदार्थानां प्रतिनियमो भवतीत्येकपदार्थस्थितत्वं सर्वपदार्थस्थितायाः । प्रतिनियतैकरूपाभिरेव सत्ताभिः प्रतिनियतैकरूपत्वं वस्तूनां भवतीत्येकरूपत्वं सविश्वरूपायाः । प्रतिपर्यायनियताभिरेव सत्ताभिः प्रतिनियतैकपर्यायाणामानन्त्यं भवतीत्येकपर्यायत्वमनन्तपर्याययाः । इति सर्वमनवद्यम् सामान्यविशेषप्ररूपणप्रवणनयैद्वयायत्तत्वात् तद्देशनायाः ॥
[९] अत्र सत्ताद्रव्ययोरर्थान्तरत्वं प्रत्याख्यातम् । द्रवति गच्छति सामान्यरूपेण स्वरूपेण व्यामोति तांस्तान् क्रमभुवः सहभुवश्च सद्भावपर्यायान् स्वभावविशेषानित्यनुगतार्थया निरुत्त्या द्रव्यं व्याख्यातम् । द्रव्यं च लक्ष्यलक्षणभावादिभ्यः कश्चिद्भेदेऽपि वस्तुतः सत्तायाः अपृथग्भूतमेवेति मन्तव्यम् । ततो यत्पूर्व सत्वमसत्वं त्रिलक्षणत्वमत्रिलक्षणत्वमेकत्वमनेकत्वं सर्वपदार्थस्थितत्वमेकपदार्थस्थितत्वं विश्वरूपत्वमेकरूपत्वमनन्तपर्यायत्वमेकपर्यायत्वं च प्रतिपादितं सत्तायास्तत्सर्वं तदनर्थान्तरभूतस्य द्रव्यस्यैव द्रष्टव्यं । ततो न कश्चिदपि तेषु सत्ताविशेषोऽवशिष्येत यः सत्तां वस्तुतो द्रव्यात्पृथक् व्यवस्थापयेदिति ॥
[१०] अत्र त्रेधा द्रव्यलक्षणमुक्तम् । सद्दव्यलक्षणमुक्तलक्षणायाः सत्ताया अविशेषाद्द्रव्यस्य सत्स्त्ररूपमेव लक्षणम्, नचानेकान्तात्मकस्य द्रव्यस्य सन्मात्रमेव स्वरूपं । यतो लक्ष्यलक्षणविभागाभाव इति उत्पादव्ययनौव्याणि वा द्रव्यलक्षणं । एकजात्यविरोधिनि क्रमभुवां भावानां संताने पूर्व भावविनाशः समुच्छेद् उत्तरभावप्रादुर्भावश्च समुत्पादः । पूर्वोत्तरभावोच्छेदोत्पादयोरपि स्वजातेरपरित्यागो धौव्यं । तानि सामान्यादेशादभिन्नानि विशेष देशाद्भिन्नानि युगपद्भावीनि स्वभावभूतानि द्रव्यस्य लक्षणं भवन्तीति । गुणपर्याया वा द्रव्यलक्षणं । अनेकान्तात्मकस्य वस्तुनोऽन्वयिनो विशेषा गुणाः व्यतिरेकिणः पर्यायास्ते द्रव्ये यौगपद्येन क्रमेण च प्रवर्तमानाः कथञ्चिद्भिन्नाः स्वभवभूताः द्रव्यलक्षणतामापद्यन्ते । त्रयाणामप्यमीषां द्रव्यलक्षणानामेकस्मिन्नभिहितेऽन्यदुभयमैर्थदेवापद्यते । सचेदुत्पादव्ययभौव्यवच्च गुणपर्यायवच्च । उत्पादव्ययत्रौव्यवच्चेत्सच्च गुणपर्यायवच्च । गुणपर्यायवच्चेत्सच्चोत्पादद्व्यय धौव्यवच्चेति । सद्धि नित्यानित्यस्वभावत्वाद्ध्रुवत्वमुत्पादव्ययात्मकताञ्च प्रथयति । श्रुवत्वात्मकैर्गुणैरुत्पादव्ययादव्ययात्मकैः पर्यायैश्च सहैकत्वञ्चाख्याति । उत्पादव्ययत्रव्याणि तु नित्यानित्यस्वरूपं परमार्थ सदावेदयन्ति | गुणपर्यायांश्चात्मलाभनिबन्धनभूतान् प्रर्थयन्ति गुणपर्यायास्त्वन्वयव्यतिरेकित्या व्योत्पत्तिविनाशान् सूचयन्ति नित्यानित्यस्वभावं परमार्थ सचोपलक्षयन्ति ॥
1
६५
|
[ ११ ] अत्रोभययाभ्यां द्रव्यलक्षणं प्रविभक्तम् । द्रव्यस्य हि सहकमप्रवृत्तगुणपर्यीयसद्भावरूपस्य त्रिकालावस्थायिनोऽनादिनिधनस्य न समुच्छेदसमुदयौ युक्तौ । अथ तस्यैव पर्यायाणां सहप्रवृत्तिभाजां केषांचित् श्रौव्यसंभवेऽप्यपरेषां क्रमप्रवृत्तिभाजां विनाशसंभव संभावनमुपपन्नम् । ततो
१ एकमेकस्वरूपं प्रति त्रिलक्षणत्वाभावात्. २ निश्वयः ३ अत्र सत्तादेशनाया द्विनयाधीनत्वात्. ४ प्रत्याख्यातं निराकृतं । “प्रत्याख्यातो निराकृतः” इति वचनात् ५ स्वरूपभेदान्. ६ संज्ञालक्षणप्रयोजनेन ७ परमातः ८ ज्ञातव्यं अवयोद्धव्यं वा ९ द्रव्यम्. १० गुणपर्य्यायाः ११ द्रव्यस्य लक्षणभूताः १२ प्राप्नुवन्ति १३ सत्ता, उत्पादव्ययभाव्यत्वं, गुणपर्यायत्वं चेति त्रयाणाम्. १४ लक्षणे. १५ कथ्यते. १६ अर्थानुसारात्. १७ कथयति. १८ कर्तृषि. १९ विस्तारयन्ति २० दर्शयन्ति अवबोधयन्ति वा २१ द्रव्यार्थिक पर्यायार्थिकनयाभ्याम्.