________________
प्रथमपरिवर्तः ।
विचारयेत्। तदनु यथाविचारितं तन्निमित्तमवधारणाचित्तेनावष्टत्य यथाविचारितमेवार्थं नामालंबके मूलचित्ते सङ्कलनचित्तेन प्रक्षिप्य यदर्थं प्रयुक्तो भवति तच्छन्दसहगतेनाशास्तिचित्तेन भावनां कुर्यादित्येवमादिश्रुतचित्तभावनामयज्ञानोदयक्रमेण सर्वाकारज्ञानाधिगमात्यारं प्रकर्षपर्यन्तमेतीति विगृह्य विपि सर्वापहारलापेऽनित्यमागमशासनमित्यलुकि तत्पुरुषे कृति बहुलमित्यलुकि च कर्मविभक्तेः कृते पारमिस्तद्भावः पारमिता । प्रज्ञाया धर्मप्रविचयलक्षणायाः पारमिता मुख्या बुद्धो भगवान्मायोपमं ज्ञानमद्वयम् । तत्प्रात्यनुकूलत्वेन तु पदवाक्यसमूहो ग्रन्थो दर्शनादिलक्षणो मार्गश्र गौणी प्रज्ञापारमिता । तथाचाहाचार्यदिङ्गागः
२०
प्राज्ञापारमिता ज्ञानमदयं सा तथागतः । साध्या तादर्थ्ययोगेन ताच्छन्द्यं ग्रन्थमार्गयोः ॥ इति । तस्त्रिविधामपि तत्सम्बन्धिनौं प्रतिवर्णिको पदेशरहितां प्रज्ञापारमितामेव प्राधान्यादधिकृत्येत्यवधारणम् । न त तेषामेवेति बोधिचयेऽस्या नान्तरीयकत्वेनाधिकारात् । तु तथाचैव वक्ष्यति श्रावकभूमावपि शिक्षितुकामेनेयमेव प्रज्ञापारमिता श्रोतव्येत्यादि (p. 6. 12 ) । सर्वाकारपरमपुरुषार्थोपयुक्ताधिगमक्रमस्य प्रतिपाद्यमानत्वात्तच बोधिचित्तं कुलपुत्रबीजभूतं तदेव फलभूतं सारं सर्वबुद्धधर्माणामित्यार्यगण्डव्यूहादिनिर्देशाद्यथा येन परार्थालम्बनसम्यक्संबोधिकामता लक्षणद्वाविंशतिप्रभेदभिन्नबोधिचित्ताधिगमप्रकारेण बोधिसत्त्वा महासत्त्वास्त्रिविधामपि
च