________________
व्यभिसमयालङ्कारालोकः ।
प्रज्ञापारमितान्निर्यायुर्निश्चित्य प्राप्नुयुरिति स्वालम्बनस्वरूपप्रभेदश्चित्तोत्पादस्तत्प्रभेद एव च चार्थ इति दर्शयितुं स्वयं भगवता मन्त्रणद्दारेण समासतः प्रज्ञापारमिता देशिता । तदयं संक्षिप्तो वाक्यार्थो यथा सर्वप्रकारबोधिचित्ताधिगमप्रकारेण बोधिसत्त्वा महासत्त्वा - स्त्रिविधामपि प्रज्ञापारमितां यथासम्भवं श्रुतादिज्ञानोदयक्रमेण सम्यक् प्राप्नुयुस्तथा तेषां सम्बन्धिनौं प्रज्ञापारमितामेवारभ्य व्यासतो भाषणाय चतुर्विधा प्रतिसंवित्ते, तव, सुभूते, संमुखौभवत्वित्येवमार्य सुभूतिं स्थविरं भगवानामन्त्रितवानिति । विस्तारतस्तु
तत्रादौ गोत्रसामर्थ्यात् कृपाबीजप्रबोधतः । प्रयोगाश्यसंपत्त्या बोधिचित्तपरिग्रहः ॥
२६
इति न्यायाद्गोत्रादिसामर्थ्येन बोधिसत्त्वसंवरसमादानादिना शून्यताकरुणागर्भबोधिचित्तमुत्पाद्य सम्यक् संबुद्धो भूत्वा यथाभव्यतया परार्थं प्रति चियानधर्मदेशनादिभिर्यत्नं कुर्यामिति प्रणिधानं कृत्वा प्रतिपत्त्या सम्पादयेदिति । परार्थालम्बनः सहेतुफलः सम्यक्संबोध्यधिगमकामतालक्षणः। गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते, तथा भेदोऽनयोज्ञेयो यथासंख्येन पण्डितैरिति प्रणिधिप्रस्थानस्वभावेन द्विविधो बोधिचित्तोत्पादः ।
ननु
महोत्साहा महारम्भा महार्थार्थमहोदया । चेतना बोधिसत्त्वानां द्वयार्था चित्तसंभवः ॥
इति वचनाच्चेतनासंप्रयुक्तं चित्तं विशिष्टविषयप्रति