________________
अभिसमयालङ्कारालोकः।
रित्यार्यसुभूत्यधिमुक्तानामनुग्रहपरौन्दनाभ्यां सम्यक्परिग्रहादिक्रमेण महायाने विनयनात्ववंशानुपच्छेदार्थमचिन्त्यो वा तथागतानामुपायकौशलप्रभावो यस्मात् सर्वथाशक्तेनापि देश्यत इति प्रभावसंदर्शनविनेयानामनुग्रहार्थं प्रज्ञापारमिताभाषणं प्रति वागधिष्ठानदारेणार्यसुभूतिमन्यमनस्कमभिमुखीकरणार्थं भगवानामन्त्रयते स्मामन्त्रितवान् । कथमित्याह । प्रतिभात्वित्यादि। धर्मदेशनाधिकारादिद्यमानत्वेऽपि हे सुभूते विशिष्टधर्मार्थनिरुक्तिप्रतिभानं प्रतिसंवित्सर्वथा ते तवाभिमुखी भवतु । बोधौ सर्वधर्मासक्ततायां स्वार्थसंपदि सत्त्वमभिप्रायो येषां ते बोधिसत्त्वाः । श्रावका अपि स्युरेवमित्याह । महासत्त्वा इति। महत्यां परार्थसंपदि सत्त्वं येषां ते महासत्त्वाः। महत्त्वं चान्यथापि तौर्थिकसाधुजने च स्यादिति बोधिसत्त्वग्रहणम् । अतस्तेषां बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितामारभ्येति । प्रथमकल्यासंख्येयनिर्यातोऽधिमुक्तिचयां विवर्धयन मंभृतपुण्य - मंभारो बोधिसत्त्वः शुभे देशे पर्यङ्कमाभुज्य बुद्धबोधिसत्त्वालम्बनपूर्वकं प्रज्ञापारमितानयं सर्वधर्मनैरान्यद्योतकं मूलचित्तेन नामतः ममालक्ष्य तस्यैव पदप्रभेदं परिवर्तादिभेदादनुचरचित्तेन निरूपयेत् । तथाष्टाभिसमयावस्थाभेदेन सत्याग्रहणाहणनया। प्रत्यभिममयं स्वरूपनिश्चयात्तुलनयाऽध्यारोपापवादाभावान्मौमांसाप्रत्यक्षानुमानप्रमाणोपपन्नत्वात्प्रत्यवेक्षणतयेत्येवं प्रज्ञापारमितार्थश्चतुर्भिराकारैर्व्यञ्जनानि तु व्यस्तसमस्तानि यथाक्रमं निरर्थसदर्थतयेत्येवमाकाराभ्यां विचारणाचित्तेन