________________
प्रथमपरिवर्तः ।
मुनितथागतादिरूपो निर्माणकायः पुण्यज्ञानसंभारांशज एव श्रावकाद्युपलम्भयोग्यो देशित इत्येकोनत्रिंशत्तमपरिवर्ते। एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेनेत्यारभ्य (p. 424, 1) यावदनुत्तराणां च बुद्धधर्माणां परिपूरिरिति (p. 480, 9) परिवर्तपर्यवसानेनोक्तो बुद्धानां भगवतां धर्मकायाभिसंबोधः । तथाचोक्तम् । स्वाभाविकः ससांभोगो नैर्माणिकोऽपरस्तथा। धर्मकायः सकारित्रचतुर्धा समुदौरितः॥ १८॥ इति । तदनन्तरं सदाप्ररुदितबोधिसत्त्ववत्प्रतिपत्तिः कार्येति विनेयजनबोधनाय तत्पूर्वयोगकथामुखेन कल्याणमित्रारागणपूर्वकप्रज्ञापारमितायोगानुशंसां दर्शयितुमुपसंहारद्वारेण मध्यमप्रतिपत्त्या यथाक्ताभिसमयक्रमप्रतिपादनपरमेव परिवर्तत्रयं देशितम्। तत्पुनः सुगमत्वाच्चाभिसमयालङ्कारकारिकया न सङ्गहौतमित्यपरप्रकारहयेन समुदायार्थस्याभिधास्यमानत्वादेकस्तावत्समुदायार्थः ।
इदानों पदार्थादिव्याख्यानेन सूत्रार्थोऽभिधीयते। तत्र इति (p. 3, 12) वाक्योपन्यासे। खलशब्दो वाक्यालङ्कारे। शोभनाऽरणाविहारिणां मध्येऽग्रा भूतिश्चेतसः संपत्तिर्यस्य स सुभूतिः। सदेवके लोके पूजादिभिः स्थाविर्यप्राप्तत्वात्स्थविरः। इह क्वचित्तथागतानां कायव्यापारात्मकपाण्याद्यधिष्ठानेन देशना। तद्यथा दशभूमकादेः सूचस्य देशना । क्वचिवचनाधिष्ठानेन तद्यथाऽजातशत्रशोकविनोदनसूचादेः। क्वचिन्मनोऽधिष्ठानेन तद्यथा समन्तभद्रचर्यानिर्देशखूचादे