________________
यभिसमयालङ्कारालोकः ।
वानुपूर्विक" इति। तदनन्तरं विभावितानुपूर्वाभिसमयस्य स्वभ्यस्तीकरणाय तेषामेवाधिगतानां धर्माणामविपाकानश्रवसर्वधमैकक्षणलक्षणादिचतुर्विधभेदादेकेनैव क्षणेनाभिमुखीकरणमिति तत्रैव परिवर्ते सर्वधर्माकोप्यतया प्रज्ञापारमिताऽकोप्यतानुगन्तव्येत्येकेनैव पदेन सकारणेनैकक्षणाभिमंबोधो दर्शितः। तथाचोक्तम्। __ एकक्षणाभिमंबोधो लक्षणेन चतुर्विधः ॥ १७॥ इति।
तदनु विभाविकक्षणाभिमंबोधस्य द्वितीये क्षणे धर्मकायाभिमंबोध इति विविधमनन्तराभिमंबोधं बोधिसत्त्वानां निदिश्य परिशिष्टकायचयं तथ्यमंत्त्या प्रतिभासमानं परमार्थतो धर्मतारूपं यथाधिमोक्षप्रभावितं बुद्धबोधिसत्त्वश्रावकादिगोचरं व्यवस्थापितमिति कथनाय "विविक्ताव्यतिरेकित्वं विवेकस्य यतो मतमि”ति न्यायात् तदव्यतिरेकेपि पृथग् लोकोत्तरेण मार्गेण प्राप्यते न तु क्रियत इत्यकृत्रिमार्थेन मायोपमविज्ञानमयसर्वधर्मप्रतिपत्त्याधिगतः स्वाभाविकः काय इति तत्कथनपूर्वकमवश्यमेवाभ्युपगन्तव्या योगिसंवृत्त्या विशिष्टार्थप्रतिभासजननहारेणाश्रयपराहत्या परात्ता धर्मदेशनाद्यर्थक्रियाकारिणाऽदयाश्रित्तचैताः । सर्वाकारस्तथागतानामेव गोचरो ज्ञानसंभारजः सव्यापारो धर्मकाय इत्यभिधानानन्तरं नानासूत्ररत्नश्रवणाभिलाषिभिर्दशभूमिप्रविष्टैर्महाबोधिसत्त्वैः सह परमानवद्यमहायानधर्मसंभोगप्रौतिसुखोपभोगादप्रमेयपुण्यमंभारसंभृतं लक्षणानुव्यञ्जनविराजितगात्रं सांभोगिककायं प्रतिपाद्य यथाभव्यतयाशेषजगदर्थक्रियाकारौ सर्वथाऽऽभावाग्रादनुपरतप्रबन्धः शाक्य