________________
२४
प्रथमपरिवर्तः ।
तदनन्तरं प्राप्तसकाराभिसंबोधस्य विशेषमार्गेण प्रकर्षपर्यन्तोऽधिगम इति मूर्धाभिसमयं दर्शयितुं यथासंख्यमुष्मादिचतुर्विधनिर्वेधभागीयस्वभावलिङ्गविविनिरूढिचित्तसंस्थितिप्रतिपादनपूर्वकं प्रवृत्तिनिरूपक्षाधिष्ठानौ द्रव्यप्रज्ञप्तिसत्पुरुषाधिष्ठानौ च यथाक्रमं द्वौ दौ ग्राह्यग्राहकविकल्पाविति प्रहेयतया चतुर्विधविपक्षं तत्पहाणावस्थाविशेषं चोपदेयतया चतुर्विधं प्रतिपष्टां प्रत्येक दर्शनभावनामार्ग निर्दिश्य बुद्धत्वप्राप्तेरव्यवधानेनानन्तर्यसमाधिरुभयसत्याश्रितोपायकौशलेन निराकरणीयविप्रतिपत्त्या मह देशित इति विंशतितमपरिवर्ते सचेद्दोधिसत्त्वो महासत्वः स्वप्नान्तरगतोऽपोत्यारभ्य (p. 380, 13) यावदेकोनविंशत्तमपरिवर्ते कुशलाकुशलधर्मापरिमाणतया प्रज्ञापारमिताऽपरिमाणतानुगन्तव्येति (p. 428, 8) एतत्पर्यन्तेन सकारणेनोक्तो मूर्धाभिसमयस्तथाचोक्तम् ।
लिङ्गं तस्य विद्धिश्च निरूढिश्रित्तसंस्थितिः । चतुर्दा च विकल्पस्य प्रतिपक्षश्चतुर्विधः ॥ १५ ॥ प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि।
आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः ॥ १६ ॥ "मूर्धाभिसमय" इति। तदनु प्राप्तमूर्धाभिसमयो व्यस्तसमस्तत्वेनाधिगतानर्थाननुपूर्वोकृत्य स्थिरीकरणाय विभावयतौति सर्वधर्मसङ्ग्राहकदानादित्रयोदशप्रकारतयैकोनविंशत्तमपरिवर्ते सिंहनादनदनतया प्रज्ञापारमिता नदनतानुगन्तव्ये (p. 478, 9) त्येकेनैव पदेन सकारणेनोक्तो ऽनुपूर्वाभिसमयस्तथाचोक्तम्। “त्रिधा दशधा