________________
अभिसमयालङ्कारालोकः।
२३
विपक्षप्रतिपक्षौ च प्रयोगः समताऽस्य च। दृङमार्गः श्रावकादौनामिति सर्वज्ञतेष्यते ॥ १२ ॥
इति। तदनु परिज्ञातचिसर्वज्ञतावशित्वार्थं पुनः सर्वाकारमार्गवस्तुज्ञानप्रकारसङ्ग्रहेण विसर्वज्ञतां भावयतौति सर्वाकाराभिसंबोधं दर्शयितुमाकारविशिष्टप्रयोगैर्भावयितव्या यथासंख्यं गुणदोषादानत्यागेन लक्षणज्ञानपूर्वकमुत्पन्नमोक्षभागीयकुशलमूलेनेत्याकारादौनिर्दिश्य विवर्धितमोक्षभागीयस्योत्साहिनो निर्वेधभागीयाद्यधिगमद्वारेण प्राप्तशैक्षावैवर्तिकबोधिसत्त्वगणधर्मस्य बुद्धत्वनिमित्तसंसारनिर्वाणसमताभावनापूर्वकं निष्पादितस्वबुद्धक्षेत्रविशुद्धावुपायकौशलेन यथाभव्यतयाऽनाभोगाढुद्धकृत्यं प्रवर्तत इति निर्वेधभागीयादयो देशिता इति नवमपरिवर्ते । एवमुक्त
आयुष्मान् सुभूतिभगवन्तमेतदवोचत्। महापारमितेयम् (p. 204, 1) इत्यारभ्य यावद् विंशतितमपरिवर्ते। ते ते बोधिसत्त्वा महासत्त्वा असंहार्याः सदेवमानुषासुरेण लोकेनेत्ये (p. 380, 12) तत्पर्यन्तेनोक्तो बुद्धादीनां यथासम्भवं सर्वाकाराभिसंबोधः। तथाचोक्तम् ।
आकाराः संप्रयोगाश्च गुणा दोषाः सलक्षणाः। मोक्षनिर्वेधभागीये शैक्षोऽवैवर्तिको गणः ॥ १३ ॥ समताभवशन्त्योश्च क्षेत्रशुद्धिरनुत्तरा। सर्वाकाराभिसंबोध एष सोपायकौशलः ॥ १४ ॥
इति ।