________________
२२
प्रथमपरिवर्तः ।
तथाचोक्तम्—
ध्यामीकरणतादीनि शिष्यखड्गपथौ च यौ महानुशंसो दृङ्मार्ग ऐहिकामुचिकैर्गुणैः ॥ ८ ॥ कारिचमधिमुक्तिश्च स्तुतस्तोभितशंसिताः । परिणामेऽनुमोदे च मनस्कारावनुत्तमौ ॥ ८ ॥
निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः । विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता ॥ १० ॥ इति ।
ततः सर्ववस्तुपरिज्ञानं विना न मार्गज्ञतापरिज्ञानं सम्यगिति सर्वज्ञतां दर्शयितुं प्रज्ञया संसारादौनवदर्शनेन कृपया च सत्त्वार्थकरणपारतन्त्रेण बोधिसत्त्वानां भवशमानवस्थानाद्यतिरेकनिर्देशेन चैवं श्रावकप्रत्येकबुद्धानामिति निर्देशपूर्वकं तत्समर्थनार्थमेवान्वयव्यतिरेकतया निमित्तानिमित्तग्रहणाज्जौनजनन्या निर्दिष्टदूरेतरभावेनोपलम्भानुपलम्भाभ्यां विपक्षप्रतिपक्षौ निर्दिश्य तयोविभावनायां पुनरन्वयमुखेनैव बोधिसत्त्वानां प्रयोगकथनादनन्तरं तत्समताप्रतिपादनपूर्वको ध्येयो दर्शनमार्गोऽभिहित इत्यष्टमपरिवर्ते । आयुष्मान् सुभूतिराहेत्यारभ्य (p. 189, 22 ) यावन्नवमपरिवर्ते नापि कस्यचिह्नर्मस्य प्रवर्तनं वा निवर्तनं वैवमियं सुभृते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितेत्ये (p. 203, 17 ) तत्पर्यन्तेनोक्ता श्रावकप्रत्येकबुद्धानां सर्वज्ञता । तथाचोक्तम् ।
प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः । अनुपायेन दूरत्वमुपायेनाविदूरता ॥ ११ ॥