________________
अभिसमयालदारालोकः। मिति मार्गज्ञतां दर्शयितुं स्वप्रकृतिप्रभाभिर्दवादीनां वैपाकिकप्रभाया मलिनौकरणेन लोकपालवाद्यभिमाननिराकारणाइक्रोक्त्या निहतमानसंतान एव पुगलोऽधिगमेऽस्या भाव्य इत्याधारकथनानन्तरं स्वविषयप्रतिनियमादिकमभिधाय मार्गज्ञताऽधिकारे सर्वे मार्गाः परिपूरयितव्या इति श्रावकप्रत्येकबुद्धमार्गप्रतिपादनपूर्वकमैहलौकिकादिगुणैरुपेतो महानुशंसो बोधिसत्त्वानां दर्शनमार्गा भगवताभिहितः। ततोऽनन्तरं भावनामार्गाभिधाने सति स्वल्पवक्तव्यत्वेन फलनिम्नत्वेन च विनेयप्रत्तेस्तस्य कारिवमादा निर्दिश्य साश्रवानाश्रवरूपेण दिविधो भावनामार्ग इत्यधिमुक्तिपरिणामनानुमोदनाभेदेन विविधसाश्रवभावनामार्गमध्ये काञ्चनपिण्डमिव धातुभ्यः पुण्यमभिसंस्करोतीत्यादावधिमुक्तिमनस्कारमुत्ला तद्भावकबोधिसत्त्वोत्साहनायैवमधिमुक्तेर्बद्धादिभिः स्तुत्यादयः क्रियन्त इत्युत्तरोत्तराभिनन्दनरूपाः स्तुतस्तोभितशंसिताः कथिताः। तदनु सम्यक्मंबोधेस्तत्पुण्यमुपकरणौकरोति सुवर्णकार इवाभरणमिति परिणमनामनस्कारपूर्वक स्वपरपुण्यक्रियासमताप्रतिलाभार्थमनुमोदनामनस्कारमभिधाय प्रयोगविशुद्धिभेदेन द्विविधोऽनाश्रवो भावनामार्ग इति प्रथममभिनिर्हारलक्षणं प्रतिपाद्य द्वितीयोऽत्यन्तविशुद्धिलक्षणो देशित इति। द्वितीयपरिवर्तमारभ्य यावदष्टमपरिवर्ते। य एवमस्य बोधिसत्त्वस्य महासत्त्वस्य भगवन्नवबोध इयमस्य प्रज्ञापारमिता। भगवानाह। अत्यन्तविशुद्धत्वत्सुभूत (p. 189, 21) इति एतत्पर्यन्तेनोक्ता बोधिसत्त्वानां मार्गज्ञता।