________________
प्रथमपरिवर्तः। दिधववादग्रहणानन्तरं श्रुतादिप्रकर्षप्राप्तमोक्षभागीयश्रवादिलक्षणकुशस्लमूलादूर्ध्वं चतुःसत्यप्रतिवेधानुकलं चतुविधनिर्वेदभागीयं लौकिकभावनामयनिश्चित्य प्रतिपत्तिमतो यथोक्तनिवेदभागीयमन्यदपि दर्शनमार्गादिकमिति प्रतिपत्तिराधारेण धर्मधातुस्वभाविनैव बोधिसत्त्वेन सर्वधर्मालंबनपूर्वकं सर्वसत्त्वाग्रताचित्तमहत्वं प्रमाणमहत्वमधिगममहत्वं चाधिकृत्य प्रतिपत्तिः प्रवर्तत इत्यभिलक्ष्यस्थानीयस्त्रिविधः समुद्देशो ध्येयः। तदनु तत्याप्तये विसर्वज्ञताविषये सामान्येन शुक्लधर्माधिष्ठाना सर्वाकाराभिसम्बोधादौ चतुर्विधेऽभिसमये प्रत्यभिसमयं षट्पारमिताऽधिष्ठाना च क्रियाप्रतिपत्तिरित्येवं यथावत्प्रयोगदर्शनभावनाविशेषमार्गस्वभावानां सन्नाहादिप्रतिपत्तीनां मध्ये वौर्यरूपतया प्रथमतः सन्नाहप्रतिपत्त्या सन्नह्य प्रस्थानप्रतिपत्त्या समस्तमहायानधर्माभिरोहणपूर्वकं संभारप्रतिपत्त्या सम्भूतसंभारेण निर्याणप्रतिपत्तिरधिगन्तव्येत्येवं बुद्धत्वावाहकधर्माधिगमानुक्रमेण प्रकाशनात्तथागतानामिति प्रथमपरिवर्तसङ्ग्रहौता सर्वाकारज्ञता। तथा चोक्तम्। चितोत्पादोऽववादश्च निर्वेधाङ्गं चतुर्विधम् ।
धारः प्रतिपत्तेश्च धर्मधातुस्वभावकः ॥ ६ ॥ आलम्बनं समुद्देशः सन्नाहप्रस्थितिक्रिये। मम्भाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः ॥ ७ ॥
इति। तदन सर्वाकारज्ञताधिगमो न विना सर्वमार्गाधिगमन