________________
अभिसमयालङ्कारालोकः।
तणां व्याख्यानमिति समासनिर्देशेन पिण्डार्थस्तावदभिधौयते। तब बुद्धत्वार्थिनो बोधिसत्त्वस्य चित्तोत्पादादिसर्वाकारपरिज्ञानादौ फलनिर्देशेन सर्वाकारज्ञता कथिता। सा न विना श्रावकमार्गादिपरिज्ञानेनेति तदनु मार्गजता। सापि न सर्ववस्तुपरिज्ञानमन्तरेणेति तदनन्तरं सर्वज्ञता। ततः सर्वथैवंप्राप्तत्रिसर्वज्ञतावशित्वार्थं पुनः सर्वाकारमार्गवस्तुज्ञानप्रकारसङ्ग्रहेण त्रिसर्वज्ञताभावनयाऽधिगम्य सर्वाकाराभिसम्बोधं विशेषमार्गेण प्रकर्षपर्यन्ताधिगमलाभान्मूर्धाभिसमयमासाद्य व्यस्तसमस्तभेदेन विभावितानर्थान् प्रगणीकृत्य निश्चयाय साक्षात्करोतीति विदित्वानुपूर्वाभिसमयम् पुनरपि स्वभ्यस्तीकरणाय विभावितैकक्षणाभिसंबोधानन्तरं दितीये क्षणे धर्मकायाऽभिसंबोधं सम्यगधिगच्छतौति समासतोऽष्टाभिसमयः प्रज्ञापारमितायां पिण्डार्थः। तथाचोक्तम् ।
प्रज्ञापारमिताऽष्टाभिः पदार्थैः समुदौरिता । सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः ॥ ४ ॥ सर्वाकाराभिसंबोधो मूर्धाप्राप्तोऽनुपूर्विकः ।
एकक्षणाभिसंबोधो धर्मकायश्च ते ऽष्टधा॥५॥ इति । समासनिर्दिष्टस्य व्यासतश्चाख्यानात्वाख्यातत्वमिति पुनरपि व्यासतः पिण्डार्थोऽभिधीयते। तत्र सम्यक्संबोधिमधिगन्तुकामेनादौ शून्यताकरुणागर्भ बोधिचित्तं प्रणिधिप्रस्थानस्वभावं द्विविधमुत्पाद्य चित्तोत्यादतदाक्षिप्तधर्मनिष्यत्तये संप्राप्तगुणपरिपालनार्थेनाभियर्थं प्रतिपत्त्या