________________
१०
प्रथमपरिवर्तः ।
भगवांस्तानि पद्मान्यपरिशुद्ध लोकधातूत्पादेऽपि तदोषानुपलेपज्ञापनाय सङ्घर्मपूजार्थं प्रहितानौति कृत्वा स्वस्व - दिक्षु प्रक्षिप्य तेषु च पद्मेषु तथागताधिष्ठानपूर्वकजिनजननौदेशनयानुत्तरसम्यक् संबोधौ सर्वसत्त्वान् नियतौकर्तुं सङ्घर्मपूजायामुपनाम्य समागतं यथाभव्यं महाबोधिसत्त्वादिमं निपातमवगम्यादिमध्यान्तकल्याणत्वादियुक्तां प्रज्ञापारमितां देशितवानिति निदानं प्रतिपत्तव्यम् । अत्र तूइटितज्ञसंक्षिप्तरुचिसत्त्वानुग्रहदेशनाधिकारान्नोक्तम् । तदुक्तं यदा भगवान् राजगृहे महानगरे गृध्रकूटे पर्वते यथोक्तपर्षदा परिवृतो धर्मं देशयन् विजहार तदा भगवतः सकाशात्तत्रैव स्थाने तया पर्षदा सार्धमेवं मया स्वचरत्नं श्रुतमिति सर्वैरप्येतैर्लोकव्यवहारानुवर्तनात् सौर्तितदेशादिभिः सङ्गीतिकारेणात्मप्रामाण्यप्रतिपादनाहिनेयानाम् सादर श्रवणचिन्तनादिकमुक्तम् । चाहार्यदिङ्गागः ।
तथा
श्रद्धावतां प्रवृत्त्यङ्गं शास्ता पर्षच्च साक्षिणी । देशकालौ च निर्दिष्टौ स्वप्रामाण्यप्रसिद्धये ॥ सङ्गौतिकर्त्ता लोके हि देशकालेोपलक्षितम् । समाक्षिकं वदन् वक्ता प्रामाण्यमधिगच्छति ॥ इति ।
तत्र ।
प्रयोजनं सपिण्डार्थं पदार्थमानुसन्धिकः । सचोद्यपरिहारश्च वाच्यः तत्रार्थवादिभिः ॥ इति पञ्चभिराकारैः स्वत्रं व्याख्यातव्यमिति व्याख्यायुक्तौ निर्णौतम् । इत्यभिहितमेव प्रयोजनम् । अतः श्रोतृजनसुखप्रतिपत्तये कृतविभागार्थस्य च शास्त्रस्य सुकरं व्याख्या