________________
अभिसमयालगरालोकः ।
तदनु मलिष्टलोकधावत्यादात्संभवत्यज्ञादिप्रकर्षत्वाच्च सर्वबुद्धन समानोऽयं भगवानिति सर्वाकारजगदर्थकरणाय मन्दधाजनाशङ्कामपाकुर्वन् समानप्रस्थानसंभारपरिपूर्णबोधिसत्वान: 'प्रतिबुद्धक्षेत्रमनुत्तरसम्यक्संबोधिसंभवात्सर्वबुद्धैः सह मभारधर्मकायाभ्यां जगतश्चार्थचर्यया समता सर्वबुद्धानान्नायुर्जातिप्रमाणत इत्यात्मनस्तुल्यतां कथयंस्तथा नानालाकधातूत्पन्नकृतप्रणिधानखविनेयबोधिसत्त्वानामविपरोतसनस्तप्रवचनरत्नसूचदेशनया संभारपरिपूरणोपायोपदशायें तथा स्मितमकरोद्भगवान् येनान्योन्यं सर्वलोकधातुस्थसत्त्वाः सर्वथोन्मूलितातुल्यत्वसंशयबीजाः सपर्षत्समूहाानतरेतरलोकधातवीयबुद्धान् भगवन्तः समुपलभ्य तुल्यता प्रतिपन्नाः। तथा महावभासादिनिमित्तोपालंभपूर्वक गुर्वायत्तया न सहसागमनं युक्तमिति तदर्थ दशदिग्लोकधातवीयजिनात्मजास्तान् स्वस्वतथागतानुपसंक्रम्य पदाभिवंदनपुरःसरा एव कस्यायमनुभाव इति प्रश्नस्य विप्तजनानन्तरं प्रशंसावाक्यश्रवणेन विदितस्वाधिपतिभद्राशयास्ताहग्विधसपरिवारभगवदर्शनाद्यर्थं गमिष्यामो वयं भगवन्त इत्यालोच्य गृहीतस्वाधिपतिधर्मगौरवप्रेषितपूजार्थनानारत्नपद्मवा संदेशाल्याबधातादिपरिपृच्छावचनाः पञ्चकषायोत्सादत्वादस्य लोकधातोरप्रमादविहारिणो भविष्यथेत्यनुशासनौं प्रतिगृह्यान्तरालवतिबुद्धानां पूजामभिनिवर्तयन्तोऽपरिमितपरिवाराः समागम्यानुष्ठितपादवन्दनपूर्वक पूजाप्रसराः स्वस्वस्थानीभूय कथितस्वस्व तथागतवार्तावचनाः पद्मानि निर्यातितवन्त इति हिविध धर्मावभासनप्रातिहार्यम् । तदनु