________________
प्रथमपरिवर्तः ।
ब्रह्मचर्यावासः । साधु प्राणिभूतेष्ठ विहिंसेति द्विविधं समाधिप्रातिहार्यम् । तदनु भगवान् प्राप्तसमस्तज्ञेयाधिपत्येनेयं प्रज्ञापारमिता देशयितुं शक्यत इति कथयन् विनेयानामादरोत्पादनाय पूर्ववत् सर्वलोकधातूनभिभूय प्रभावर्णश्री तेजोभिर्यथाक्रमं स्थानभासनतपनविरोचनं सर्वपर्वतानभिभूय सुमेरुः पर्वतराज इव कृतवान् । तथैवेदृशैरेवेयं बोद्धुं देशयितुं च शक्यते न माहशैरिति यत्नं न कुर्युर्विनेयास्ततो मनुष्या एव सर्वं सम्पादयितुमलमित्युत्साहसंजननार्थमेतल्लोकधातुसत्त्वात्मभावसमानमात्मभावं प्राकृतमुपदर्शितवान् । ततो जातप्रसादातिशयैर्देवमनुष्यै - भूतार्थभावनाभ्यासात्, कालान्तरेणेदृशमेव धर्माधिगमं पश्यद्भिर्भगवान् पुष्पादिभिः पूजितः । यथा देयाः परिभुज्यन्ते तथा सुपरिणमितवस्तुपरिभोगाच्चित्तप्रसादेन पुण्याfest प्रसृष्टकायादितया प्रज्ञासम्भारो विनेयानां सुखेनोत्पद्यत इत्यनुग्रहार्थं तानि च पुण्यादौनि चिसा - हस्त्रमहासाहस्रलोकधातुप्रमाणसर्वालङ्कारशोभनकूटागार
१६
रूपेणैतल्लोकधातोरतौवशोभाकारेण स्वमूर्ध्नि भगवताधिष्ठितानि । तथाच तान्यधिष्ठाय क्षपिता हम्मानवासनानामेकाभिलक्ष्यधर्मदेशनायां दौर्मनस्यादिना सम्यक्प्रतिपत्तिवैकल्यमिति पूर्ववत् सर्वलोकधातुस्थसत्त्वानां पुरतः सर्वर्थोग्रहणाद्यर्थं तथा सर्वसत्त्वसमताप्रवृत्तावप्युत्तरच यथाभव्यतया चिरक्षिप्रादिभेदेन केषाञ्चिदधिगमव्याकरणादावनुनयाद्याध्यारोपपूर्वकं नास्मासु चित्तान्यथात्वं कार्य - मिति प्रदर्शनार्थं सर्वाकारधर्मदेशनापरं सममात्मभावं प्रदर्शितवान् । सुगतराज इति द्विविधम्टडिप्रातिहार्यम् ।