________________
व्यभिसमयालङ्कारालोकः ।
सम्पादनात्कृतकरणौयाः । पौनर्भाविकदुःखानुपार्जनादपहृतभाराः । निर्वाणसाक्षात्करणादनुप्राप्तस्वकार्थाः । भवहेतुसमुद्वातात्परिक्षौणभवसंयोजनाः । दर्शनभावनामार्गनिष्ठोत्कर्षात्सम्यगाज्ञासुविमुक्तचित्ताः । वैशेषिकाभिज्ञादिगुणवशित्वस्वगोत्रोत्कर्षगमनात्सर्वचेतोवशिप रमपारमिताप्राप्ता इति तथैव संबन्धः । पूर्वपूर्वस्योत्तरोत्तरं कारणम् । “ विशेषणनिष्ठाभिधाने च न पुनर्विशेषणं वाच्यमतो नापर्यवसानदोष ” इति वार्त्तिककारः । धर्मधराग्रत्वाद्यथोक्तसंख्यान्तर्गतोऽपि नैवंगुणयुक्त इत्याह ॥
99
१३
एकेत्यादि । नित्यस्य कार्यकारणलक्षणवास्यवासकभावानुपपत्तेः शुभाशुभवासनाभिः पूर्णाऽनित्यस्तदनुरूपां गतिं चातिगृह्णातीति नैरुक्तविधानात्प्रबन्धतया एकः पुद्गलः । यदुतशब्दो निपात उपदर्शनपरः । उपदर्शनपरः । आकाङ्गितायुर्भवत्वित्यायुष्मान् हितसुखपूजावाचकः । सर्वागमधारणबुद्धोपस्थानेन प्राप्तहर्षत्वादानन्दः । तदुक्तमेष आयुष्मानार्यानन्दो देशनाकाले श्रोत- आपन्नत्वेन यथोक्तगुणवैकल्यादेनमेकं पुगलं स्थापयित्वा परित्यज्येति । परिसमाप्तकार्यत्वेन स्वहितैषितया तथागताधिष्ठानेन सर्वसम्पत्तेश्च ।
पञ्चादौनववैकल्यारतिरागाभिघट्टतः (१) । लाभादितृष्णाप्रियताऽनुकम्पागुरुगौरवैः ॥
कौतुहलाद्विशेषार्थमापत्त्या रत्नकारणात् । चैत्यादिवन्दनार्थं च भिक्षुश्चरति चारिकामिति ॥ पञ्चदशचारिकाकारणवैकल्यात्स्वयं न क्वचिद् गच्छन्ति