________________
प्रथमपरिवर्तः ।
केवलं
कृतज्ञताधर्मगौरवादिभिर्भगवतोऽन्तिके विहरन्तौति निजत्वात्स्वेयं महाश्रावकपर्षदुक्ता ।
गंभौरा मितनुत्रान्तरत्नश्रवणतृष्णया । लोकधातुष्वनन्तेषु भ्रमन्ति कृतिनो यतः ॥
१४
सदा
तद्यानभाषणादेव बहवस्ते समागताः । तेनैवागमनूचेषु न पद्यन्ते जिनात्मजाः ॥ इत्येके ।
पदपरमविस्तररुचिसत्त्वानुग्रहार्थं देशितार्यशतसाहत्रिका | सर्वार्थसङ्ग्रहेण मध्यरुचिविपश्चितज्ञसत्त्वानुकम्पा - यार्यपञ्चविंशतिसाहस्रिका देशिता । तस्याश्च सर्वार्थोपसंहारेणेोद्घाटितज्ञसंक्षिप्तरुचिसत्त्वहितोदयेनार्याष्टसाहस्त्रिका भाषितेति । अतस्तदनुसारेण दृष्टधर्मसंक्षिप्तरुचिभिक्षुभिक्षुण्युपासकोपासिकापर्षत् । तथा शुद्धाध्याशयिनः साभोगानिमित्तविहारिणोऽनाभोगानिमित्तविहारिणो नियतचर्याप्रतिपन्नाः सम्यगेकजातिप्रतिबद्धाश्वेत्येवमप्रमेयमहाबोधिसत्त्वपर्षदपि ज्ञेयेत्यपरे । तथा चाहाचार्यदिङ्गागः ।
इत्यमष्टसहस्त्रौयमन्यूनार्थैर्यथोदितैः ।
ग्रन्थसंक्षेप इष्टोऽच त स्वार्था यथोदिताः ॥ इति ॥ तथा तदनुसारेणैव मन्दभाग्यानां परिवाराद्यभावे दौर्मनस्यनिवृत्त्यर्थमल्पेच्छतानुरागार्थं च स्वयं भगवान् धर्मासनं प्रज्ञाप्य समाहितैरेव गम्यमिदं सूत्ररत्नमिति दर्शयन् वज्रपर्यङ्केनातिघाटितत्वादिदोषरहितेनोपविश्य, ऋजुना कायेन धर्मचक्रमुद्राबन्धपूर्वकं नासाग्रदृष्टिन्यासादेकाग्रामभिमुखौं स्मृतिं विधाय सर्वसमाधिसङ्घहा