________________
प्रथमपरिवर्तः।
भारा यैस्तेऽपहृतभाराः। भगवतः पश्चादनुप्राप्तो हिताहितप्राप्तिपरिहारलक्षणा दिविधः स्वकोऽर्थो विद्याविद्याधिगमप्रहाणाभ्यां यैस्तेऽनुप्राप्तस्वकार्थाः। परिसमन्ताद्यथासम्भवमार्यमार्गेण क्षीणानि भवेन सह पुरुषसंयोजनात्यतिघादिनवसंयोजनानि येषां ते परिक्षीणभावसंयोजनाः। सम्यगविपरीतमासमन्ताज्ञानमाज्ञा तत्त्वावबोधस्तया सुषुविमुक्तं सर्वबन्धनविसंयुक्तं चित्तं येषां ते सम्यगाज्ञासुविमुक्तचित्ताः। सर्वच चेतसि नवानुपूर्वविहारसमापत्तिलक्षणे स्वातन्त्र्याइशिनस्ते चेतःपरमपारमिं स्वगोत्रमहर्षपर्यन्तगतिं प्राप्ताश्चेति सर्वचेतोवशिपरमपारमिप्राप्ताः । अतस्तैरेवंभूतैर्भिक्षुशतैरिति वृतौयान्तेन सर्वथा सम्बन्धः कार्यः। सर्वेऽर्हन्तः, कुतः क्षोणाश्रवत्वात्। क्षोणाश्रवाः निःक्लेशत्वादेवं यावत् सम्यगाज्ञासुविमुक्तचित्ताः। सर्वचेतोवशिपरमपारमिप्राप्तत्वादेवं पूर्वपूर्वस्योत्तरोत्तरं कारणमतः सर्वपुरुषार्थपरिसमाप्तत्वान्नापरं विशेषणं वाच्यमित्येके। हतारित्वादहन्तः प्रहोणक्लेशावरणत्वात् । क्षोणाश्रवाः पुनराश्रवक्षयप्रयासात्मकतशाभावानिलेशः। तदेवमेभिः पदैर्दोषात्यन्तप्रहाणलक्षणं गुणमभिधायेदानौं प्रतिपक्षलक्षणं गुणं वशीभूतैरित्यादिनाह। अभिज्ञादिवैशेषिकगुणाभिनिर्हाराभ्यामशैक्षशमथविपश्यनाभ्यां योगात्रैलोक्यानुग्रहक्षमत्वेन सत्त्वार्थधुरि नियोक्तं भगवता वशीभूताः। सर्वप्रकारकृष्णादृष्टिबन्धनविमोक्षाद्यथाक्रमं सुविमुक्तचित्ताः सुविमुक्तप्रज्ञाः। अकुटिलमजुना मार्गेण यावगम्यगमनादाजानेयाः केशसङ्ग्रामविजयित्वामहानागाः पुनर्जेतव्याभावात्कृतकृत्याः। युक्तरूपकार्य