________________
अभिसमयालारालोकः ।
तयाईन्तः। क्षीणाश्रवा भवाग्रादासंसारं श्रवन्तीति कामभवाविद्याश्रवा यथायोगं तत्प्रतिपक्षानावशीलादिस्कन्धलाभेन येषां ते क्षीणाश्रवाः । निर्गतः क्लेशकर्मजन्मसंक्तशाख्यः क्लेशो येषां ते निलेशाः। यथासङ्ख्यं संप्राप्तशौलसमाधिप्रज्ञाविमुक्तिस्कन्धपरिपूरिभिर्दुश्चरिततृष्णादुदृष्टिभवबन्धनविमुक्त्या सम्यगौर्यापथाभिज्ञाविक्रीडितदिव्यार्यविहारलाभैर्यथाक्रमं स्वयं ते लोकस्य लोकचित्तं वशीभूतम् येषाम् । स्वयं च सर्वबन्धनविगमस्वातन्त्र्याचे वशिनो भूतास्ते वशीभूताः। तृष्णाऽविद्यापक्षसर्वक्लेशोपक्लेशप्रहाणात्समाधिसमापत्तयश्चेतोविमुक्तिरर्हन्मार्गज्ञानं प्रज्ञाविमुक्तिरिति कृत्वा तृष्णाऽविद्यापक्षाणामभावेन यथाक्रमं रागविरागादविद्याविरागाचेतःप्रज्ञाविमुक्तिरतस्तल्लाभात्समापत्तिक्लेशावरणविमुक्त्या सर्वथोभयभागविमुक्ताः सुविमुक्तचित्ताः सुविमुक्तप्रज्ञाः। शोकपरिदेवादिभयानामात्मानुवादपरानुवाददुर्गतिजीविकादण्डाश्लोकमरणभयानां लाभालाभाद्यष्टलोकधर्मोपलेपभयस्य स्वाधिगमपरिपन्थीभूताज्ञानसंशयमिथ्याज्ञानभयानाञ्चाभावाद्यथाक्रमं दःखभयलोकधर्माज्ञानाशंकाविगमानिर्भयत्वेनाजानेयाः। विद्यादित्वविशिष्टधर्माधिगमयोगान्महाप्रधानभावेन महानागाः। शोलसमाधिप्रज्ञापरिपूर्या कृतमवश्यकर्तव्यं सर्वदुःखप्रमोक्षादिकृत्यम् । कृतञ्चानुषङ्गिकं कर्तव्यं स्वेच्छाप्रतिबनवृत्तिधूतगुणादिकं करणीयं यैस्ते कृतकृत्याः कृतकरणीयाः। दुःखाद्यार्यसत्यचतुष्टयाधिगमाद्यथास्वं परिज्ञेयप्रहातव्यसाक्षात्कर्तव्यभावयितव्यानामभावेनापहृताः सर्वथापनौताः स्कन्धतशप्रतिज्ञोद्योग