________________
प्रथमपरिवर्तः।
तत्र विहरति स्म । नानाप्रकारईिप्रातिहार्येण लोकातिक्रान्तातिद्रुतधर्मदेशनादावय॑देशनाप्रातिहार्येणाशयानुशयपरिज्ञानात्परिपाच्यानुशासनौग्रातिहार्येण यानत्रयविनेयसत्त्वानां विशेषेण स्मरणादिकारिणां मोचनादभिमतमर्थं कुर्वन् चतुर्भिरौर्यापथदेशनासमापत्तिप्रतिसंलयनविहारैः कायवाकर्मधर्मसत्त्वालम्बनमनःस्वभावैरेवं विहृतवान् । ननु च भूतानद्यतनपरोक्षे काले लटः स्मशब्दयोगे विहितो न चात्र कालः सङ्गीतिकारस्य परोक्षस्तत्कथं विहरति स्मेति प्रयोगः। सत्यं, किन्तु तदन्तरमपरोक्ष चेत्यन्येनास्य साधुत्वम्। यदि वा पूर्वव्याकरणानुरोधादन्यजनापेक्षया वा परोक्षोपलक्षणत्वाददोषः। तथामन्त्रयते स्मेत्यादिवाच्यम्। महतेति सङ्ख्यानुगुणमहत्त्वयोगात् । महानुभवेन भिक्षणां चैवाचिकेन कर्मणा ज्ञप्तिचतुर्थेनानाघातपञ्चमेनैहिभिक्षुत्वेन चोपसम्पन्नानां भिन्नक्लेशानां समूहेन।
बुद्धधर्मस्तथा सङ्घो मारकोटिशतैरपि ।
भेत्तुं न शक्यते यस्मात्तस्मात् सङ्घोऽभिधीयते ॥ इति सङ्घन सार्धं सहितः परितो विहरति स्मेति सम्बन्धः। तत्र सङ्ख्यामहत्त्वमर्धेत्यादिनाह। अभिधेयार्थः सुगमः। सङ्ख्यावचनन्तु श्रावकपरिवाराणामानन्त्यात् सङ्ग्येयावधारणार्थम् । पूर्व प्रभूतार्थस्य समाससङ्ख्याग्रहणाविस्मरणात् सुखावबोधार्थं बहुश्रवणग्रहणभौरूणां श्रोत्रावधानार्थमथवा परिमाणज्ञापनार्थमुपात्तम् । गुणमहत्त्वं सर्वैरित्यादिराह। सर्व एवात्र पूजादक्षिणागुणप्रकर्षाद्यर्ह