________________
पभिसमयालबारालोकः ।
भवतीति चेत् । भवत्येव सागरनागराजपरिपृच्छानुसारेण परिशुद्धबोधिसत्त्वगणस्य न तु सर्वेषां विशिष्टभव्यतावैकल्येन तथाविधधारणशक्त्यभावात्। कथं पुनरयमेकब देशनायां विभाग इति चेत् । देशना होयं संरत्या वर्णपदनिर्भासिज्ञानात्मिकैव। सा यथावलं सवक्रमेण वा जायत इति न दोषः। अथवा
देशान्तरविनेयार्थं तत्स्थानां तर्पणाय च । श्रावकानेकवासार्थमनासक्तिं च दर्शयेत् ॥ देशनां चैत्यभावार्थं पुण्यार्थञ्चैव देहिनाम् । इत्यादिज्ञापनार्थञ्च बुवश्चरति चारिकाम् ॥ इति ॥ परहितप्रवणमतित्वेनैकस्मिन् समये गृध्रकूटे विहरति स्मेत्युत्तरेण पदेन संबध्यते ऽन्यदान्यत्र विहरणात् ।
क्लेशकर्म तथा जन्म क्लेशज्ञेयारती तथा।
येन वैपक्षिका भग्नास्तेनेह भगवान् स्मृतः॥ इत्यर्थात्या नैरुतविधानेन लेशादिकं भवानिति भगवान् । अथवा।
ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः ।
ज्ञानस्याथ प्रयत्नस्य षणां भग इति श्रुतिः ॥ सोऽस्यास्तौति समग्रैश्वर्यादिमान् भगवान् विहरति स्मेति संबन्धः । राजरहे ऽन्वर्थमंज्ञके 'प्रसिद्धस्थानविशेषे यस्तथागतैजौनजननौदेशनां प्रत्यभिसम्बोधिस्थानवहोधिसत्त्वादिमहासन्निपातभारोहहनासमर्थान्यदेशत्वेनाभिकाश्रितो नानारत्ननिकरो गृध्रकूटः पुण्यकामदेवादौनामष्टम्यादिषु पर्वसु याचां तनोतौति नैरुक्तविधानात्पर्वतः।